________________
पञ्चसूत्रोपनिषद्
T
एवमभिनिवेशविरहेण विराधनां करोत्येषः । (२) इतरस्त्वल्पविराधनो धारयति तथाविधं पक्षपातम् । किन्तु वीर्योल्लासाभावान् न तत्र प्रवर्त्तते । (३) तृतीयस्त्वल्पतमविराधनः प्रवर्त्ततेऽपि तत्र । किन्तु प्रमादादिदोषेण क्वचित् क्वचित् विराधयति किञ्चित् ।
१७५
एवं सविराधनमपि मार्गानुसारिणाऽधीतं सूत्रं परमार्थतोऽधीतम्, सम्यग्बोधलेशयोगात् । विराधनाविरहे तु विपुलः सद्द्बोध इति ध्येयम् ।
बोधसम्यक्त्वं ह्यात्मनि तद्द्बोधपरिणतिमवलम्बते । परिणतिरपि तथाविधमनोवाक्कायप्रवृत्त्या प्रसिद्ध्यति, न तु वैदुष्यमात्रेण । यद्यपि मार्गविराधना स्खलनामापादयति परिणतौ, तथापि मार्गानुसारिभावेन सद्द्बोधलेशप्रयोजकं भवति सूत्राध्ययनम् । अत एवाधीतमनेन सूत्रं परमार्थतः । ततश्च कुरुतेऽसौ सम्यग् नियोग्यम् ।
(७) सापायादिवक्तव्यता
सूत्र : अयं सबीओ नियमेण । मग्गगामिणो खु एसा अवायबहुलस्स । निरवाए जहोदिए सुत्तुत्तकारी हवइ पवयणमाइसंगए पंचसमिए-तिगुत्ते । अणत्थपरे एअच्चाए अविअत्तस्स सिसुजणणीचायनाएण 1 विअत्ते इत्थ केवली एअफलभूए । सम्ममेअं विआणइ दुविहाए परिण्णाए ।
मार्गाराधकोऽयं स्खलनाभावेऽप्यवश्यं धारयति मोक्षफलप्रदं