________________
१७४
पञ्चसूत्रोपनिषद् __ सूत्र : न एसा मग्गामिणो, विराहणा अणत्थमुहा अत्यहेऊ, तस्सारंभाओ धुवं । इत्थ मग्गदेसणाए अणभिनिवेसो पडिवत्तिमित्तं, करियारंभो । एवं पि अहीअं 'अहीअं अवगमलेसजोगओ।
नोदेति यस्य विधिमार्गं शृण्वतो दुःखम् । नापि योऽवधीरयत्यनङ्गीकुरुते वैनम् । किन्तु श्रद्धया प्रवर्त्तते मार्गे । तस्य कदाचित्तीव्र श्रद्धाबल-वीर्योल्लास-विशिष्टचित्तोपयोगवैकल्याद्विधिपालने स्खलना भवति, तथापि नास्यैकान्ततोऽनाराधना, मार्गश्रद्धानादस्य सम्यक्त्वभावात्, तद्भावे च सर्वदा सदनुष्ठानभावात् । न हि मार्गानुसारिण्यसदनुष्ठानरूपा सम्भवत्यनाराधना । उन्मादाद्यनर्थानां गुरुदोषहेतुकत्वात्, तेषाञ्च दोषाणां मार्गानुसारिण्यभावात् । एवञ्चोक्तहेतुभिविधिस्खलनाभावेऽपि तत्क्रियाऽर्थहेतुः - मोक्षाङ्गम्, मार्गाराधनया परमार्थतो मुक्तिं प्रति गमनप्रारम्भणात् । एवञ्च मार्गानुसारित्वयोगेन मोक्षाभिमुखमेवास्य गमनं विराधनाभावेऽपीत्यर्थः । कण्टकज्वरमोहोपेतमार्गगन्तृवत्, तदाह-मुनेर्मार्गप्रवृत्तिर्या सा सदोषाऽपि सैव हि । कण्टकज्वरसम्मोहयुक्तस्येव सदध्वनि - इति ।
सत्यामपि विराधनायां मार्गगामिनां त्रयः प्रकाराः सम्भवन्ति - (१) तात्त्विकदेशनाश्रवणेन न यस्यैकान्तानाराधकवन्नोदेति दुःखमवधीरणाऽप्रतिपत्तिः, किन्तु विध्यादिजिना व मुख्येत्याकारकोऽभिनिवेशोऽप्यस्य न भवति । तथाविधपक्षपातप्रायोग्यामूढदशाया अद्याप्यनेनानधिगमात् । यथा समेऽपि भूभागे स्खलत्यन्धः, स्पष्टेऽपि शब्दे स्खलति च मूकः,