________________
पञ्चसूत्रोपनिषद्
१७३ भवति । यथा - कथमेवंविधसूक्ष्मसमाचारशतानि परिपालयितुं शक्यन्ते । अपि चामृततुल्यः श्रुतधर्म एकान्ततः कल्याणकृत्, न ह्येकतरविध्यनादृतेरपास्यतेऽस्य कल्याणहेतुत्वम् - इत्यादि। अभिहितं च - शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसन्त्रासनसिंहनादः - इति ।
(२) कर्मलाघवलेशोपेताः - तेषां नोक्तविधयोदेति दुःखम्, किन्त्ववधीरणा भवति शुद्धमार्गगोचरा । यथा - भवतु या काचिदपि विधिप्रतिपादिका शास्त्रोक्तिः । अस्माभिस्तु यत् क्रियते, तदेव करिष्यामो वयम् - इति ।
(३) कर्मलाघवविशेषोपेतः - नैषोऽवगणयति मार्गम्, किन्तु न स्वीकरोत्यप्येनम् । ___न ह्येतज्जीवत्रितयस्यापि सूत्राध्ययनादिप्रवृत्तिराराधनारूपा, अपि त्वनाराधना, विधिमार्गोरीकारस्यैवासत्त्वात्तदनुपालनगन्धस्याप्यभावात् । नैवमधीतमधीतं नाम परमार्थतः, सम्यग्बोधानवाप्तेः । स तु पूर्वोक्तसमलेष्टुकाञ्चनदृग् - गुरुप्रतिबद्धभाव - सद्भूतार्थदर्शनशुश्रुषादिगुणाष्टक-तत्त्वाभिनिवेश - मोक्षकाभिलाषादि - गुणगणप्रतिजागरण-पुरस्सरमेवावाप्यते। न ह्येतद्गुणगणोपेक्षयाऽवाप्तं शुष्कं पाण्डित्यं सद्बोधनिबन्धनं भवति, अपि तु भववृद्धिबीजम् । एवं विधिमन्तरेण मार्गमुपेक्ष्य कृतं सूत्राध्ययनमनाराधनाया-मनुप्रविशति । वज्रस्वामिना बालत्वे एव श्रवणमात्रेणाधीतान्येकादशाङ्गानि, तथापि मा भूदयमनाराधक इति कृत्वा गुरुणा योगोद्वाहनपुरस्सरं पुनः पाठितानि |