________________
૧૭૨
पञ्चसूत्रोपनिषद् यस्तूपेक्ष्य विधिं यथातथाऽधीते सूत्रम्, सोऽनाराधकः । न ह्यसाववाप्नोतीष्टमनिष्टं वा फलम् । अत्रेष्टफलं मोक्षः, अनिष्टफलमुन्मादादि । सदनुष्ठानं हि मोक्षफलमेव, यथोक्तम् - श्रामण्यस्य फलं मोक्षः, प्रधानमितरत् पुनः । तत्त्वतोऽफलमेवेह ज्ञेयं कृषिपलालवत् - इति । एवं विराधनाफलमुन्मादादि । यथक्तम् - उम्मादं च लभेज्जा, रोगातंकं व पाउणे दीहं । केवलिपण्णत्ताओ धम्माओ वावि भंसेज्जा - इति । न हि सम्यक्त्वनाशमात्रं विराधनाफलम्, विराधनाकालीनसङ्क्लिष्टभावेन निर्मलचित्तनि शनात्, ततश्च चित्तभ्रमादिलक्षणोन्मादमेति प्रतिज्ञाभङ्गकृत् । क्लिश्यते दीर्घकालीनरोगातकेन । भ्रश्यति वा सर्वज्ञोक्तात् धर्मात् ।
- ननु कथमत्रानाराधनायां किञ्चित् फलमिति चेत् ? तत्त्वतस्तदनारम्भात् । न ह्यनाराधनाभावे प्राप्यत आराधनाफलम् । यदि ह्याराधनासकाशाद्भिन्ना सामग्री जनयत्याराधनासामग्रीजन्यं फलम्, अन्यथाऽतिप्रसङ्गात्, तन्त्वादेरपि घटप्रसूतिप्रसक्तेः ।
ननु सूत्राद्यर्थं यतमानोऽपि विधिमुपेक्षमाणोऽनारम्भको भवतीत्युक्तम्, कथमेष परिज्ञायत इति चेत् ? अत्रोच्यते, यदाऽनाराधकस्य तात्त्विका मार्गदेशना क्रियते - यथायमुन्मार्गः, इदृशस्तु भवति मार्गः - तदैतच्छृण्वतोऽस्य दुःखमुदेति, अवगणयति वाऽसावेनां मार्गदेशनाम्, न वैतां प्रतिपद्यते ।
अनाराधका हि प्रकारत्रयोपेता भवन्ति । (१) गुरुकर्माणः - तेषां हि शुद्धदेशना भयोत्पादिका