________________
१७०
पञ्चसूत्रोपनिषद् न हि ज्ञानमन्तरेणापनयत्यात्मकालुष्यं किञ्चित् । यदि तु तत्प्राप्यापि कचवरस्फातिरेव क्रियते, तदा कथङ्कारं तदपगमः स्यादिति विचारणीयम् ।
अयं चापर आशंसाविप्रमुक्तिप्रयुक्तो लाभः, यदनयाऽध्ययने वर्तमाने न पाण्डित्यादिप्रयोजनभाव उदेति । ततश्च न विस्मर्यत आत्महितम् । नोपेक्ष्यते गुरुसेवा । न गौणीक्रियते गुरुसमर्पणम् । न विशिष्टाध्ययनयोगेऽपि जागर्ति मदोन्मादः | न दुर्बोधाबोधहेतुकमुदेति दुर्ध्यानम् । न गुरुसत्कमानुकूल्यं गौणीकृत्य स्वानुगुणतायै समर्प्यते प्राधान्यम् । स एष आशंसाविहानप्राप्या विभूतिः ।
मोक्षाभिलाषा त्वस्य भवति तीव्रा । ततश्च महोल्लासेन धैर्येण च समं क्रियते सूत्राध्ययनम् । न हि भवनिर्वेदप्राबल्ये मोक्षाभिलाषप्रकर्षे च सति शिथिलं भवति श्रामण्यम् । एताभ्यामेव प्रेरितोऽनन्योपायतयाऽधीतेऽसौ जिनागमम् । एवञ्च ___ सूत्र : स तमवेइ सव्वहा, तओ सम्म निउंजइ | एअं धीराणं सासणं । अण्णहा अणिओगो, अविहिगहिअ-मंतनाएणं।।
सर्वथा - यथावस्थिततया सूत्रस्य बोधं प्राप्नुयात् । ततो विधिपुरस्सरमधीतसूत्रस्य तात्त्विकबोधेन सम्यग् नियोगं कुर्यात् | निश्चितो योगो नितरां वा योगो नियोगः । स च चतुर्धा भवति - (१) निश्चिता प्राप्तिः (२) सदुपयोगः (३) अधिकारः (४) विनियोगो वा ।
यथा (१) विहित आत्मनि सूत्रस्य सम्यग् नियोगः, तस्य