________________
पञ्चसूत्रोपनिषद्
१६९
तथा बद्धलक्ष्यो भवति श्रमणः । सूत्राध्ययनेन सममेव निश्चिनोत्यसौ स्वकर्त्तव्यम् । तदभावे तु (१) पाण्डित्यमात्रप्रयोजनं स्यात्तदध्ययनम् । (२) गतानुगतिकतया लक्ष्यविकलं वा स्यात् । (३) स्पर्द्धार्थं वा स्यात् । ( ४ ) सन्मानाद्यर्थं वा स्यात् । (५) चित्तमालिन्यपोषेण सदनुष्ठानोपेक्षणार्थं वा स्यात् । ज्ञानं तु तदेवोपयुज्यते यत् प्रवर्त्तयति सदनुष्ठाने । अन्यत्तु रासभारोपितभारानतिशायी । तथा च पारमर्षम् जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सुग्गइए इति (आवश्यकनिर्युक्तौ) न हि सदनुष्ठानगोचरां बद्धलक्ष्यतां 'विना प्रवर्त्तकं स्याज्ज्ञानम् ।
-
-
न हि सम्मूर्च्छिमक्रियासदृशं भवति श्रमणस्यानुष्ठानम्, अपि तु लक्ष्यसचिवम् । तल्लक्ष्यं चैतत् - (१) जिनाज्ञानुपालनेन सफलीकर्त्तव्यं मया जीवनम् । (२) कर्त्तव्यो मया मोहान्धकारनिकारेण जिनवचःप्रकाशाधिगमः । (३) प्राप्तव्यं मया कुविकल्पादिपरिहृत्यर्थं सारभूतं तत्त्वम् । (४) विधेयः खलु मया कर्मक्षयः (५) मनोदण्डादित्यागार्थं रन्तव्यं मया श्रुतोपयोगे सन्ततम् - इति । एतल्लक्ष्यसहितं कुर्याच्छास्त्राध्ययनम् ।
तथाऽऽशंसया विप्रमुक्तस्स्याच्छ्रमणः । नास्यैहिकस्य सत्कारादेः पारलौकिकस्य वा बलर्द्धिविभवादेराशंसा भवति आयतः - मोक्षः, तदेकाभिलाषितया सूत्राध्ययनं करोत्येषः । प्रतिपद्यते च सूत्रोदितं कर्त्तव्यम् । ज्ञानं त्वात्मसंशोधनं परमं रसायनम् । तदभ्यास आशंसाकालुष्यं कुपथ्यसेवनसदृशम् ।