________________
१६८
पञ्चसूत्रोपनिषद्
तत्त्वमेव विधत्ते भावप्राणपरिपुष्टिम् । विकासयति प्राज्ञभावम् । विशोधयति चेतः । अतो विधेयस्तदधिगमे यत्नः ।
तत्त्वाभिनिवेशविरहे तु (१) कदाचिच्चलितं स्याच्चित्तं तत्त्वमार्गतः । (२) स्यात् क्वचिदविधिसेवनम् । (३) भवेत् कुत्रचित्सूत्रेऽरुचिः । (४) ततश्च न भवेद्धृदि सिद्धान्तोपनिषत्परिणतिः । (५) प्रमाद - स्खलनामिथ्यावस्तु-गोचरोपादेयमति-प्रभृतिदोषसन्दोहतादवस्थ्यम् ।
तत्त्वाभिनिवेशानुभावेनैव न चलिता आनन्दकामदेवादिश्रावका दिव्योपसर्गेष्वपि । एवं शालिभद्रादिभिरपि योगाराधना कृता तस्या बीजं तत्त्वाभिनिवेशः ।
किञ्च तत्त्वाभिनिवेशेन भवति दाढर्यं विध्यनुपालने । ततश्च कालविनयबहुमानयोगोपधानानिह्नवादिज्ञानाचारपरिपालनपुरस्सरं निषद्यास्थापनादिसत्कविधिपालनपूर्वकं सूत्रार्थतदुभयाध्ययनं कुर्यात् ।
सूत्रं हि परममन्त्र इति प्रतिपद्येत । एवं प्रतिपद्य तदध्ययनं कुर्यात् । यथा ह्यपूर्वलाभप्रदस्य श्रेष्ठमन्त्रस्य पाठ एकायनतया भावोल्लासपूर्णेन हृदयेन क्रियते, तथा सूत्रश्रवणे तत्पठने च प्रयतेत । यथा हि मन्त्रोऽपनयति सर्पादिविषम्, तथा सूत्रं परममन्त्रतयोपशाम्यत्यनेकमृत्युनिबन्धनं रागादिविषम् । अत्युच्चेनैकाग्रभावेन कर्त्तव्यं सूत्रस्याध्ययनम् । कर्त्तव्यः शुभभावोल्लासः । स्मर्त्तव्यं सूत्राध्ययने बालवज्रस्वामिज्ञातम् । जिनागमान्मन्त्रवदधीयानो हि हरिभद्रमुनिर्बभूव महान् शास्त्रकार
आचार्यः ।