________________
१६७
पञ्चसूत्रोपनिषद् यथा -
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः । इति
तत्त्वज्ञानाधिगमार्थमाराधनीया एते गुणाः । तत्र शुश्रूषा - तत्त्वश्रवणार्थं तीव्र उत्सुकभावः । श्रवणम् - जिज्ञासासचिवं गुरुमुखेन तत्त्वश्रवणम् । श्रवणाभावे श्रवणोपयोगाभावे वा तत्त्वाधिगमोऽसम्भवीति । ग्रहणम् - प्रयत्नपुरस्सरं श्रुतार्थप्रतिपत्तिः । धारणा - प्रतिपन्नार्थस्य मनसि सम्यग् धारणम् । ऊहः - धारितार्थवितर्कणपुरस्सरमन्वयदृष्टान्तगवेषणा । अपोहः - व्यतिरेकनिदर्शनमार्गणम् । अर्थविज्ञानम् - ऊहापोहावधारितार्थस्यासन्दिग्धबोधः । तत्त्वज्ञानम् - तत्त्वसिद्धान्तं विनिश्चित्याऽऽदरेण सह तत्पक्षपातः | ___ अत्र वृत्तिकृता धारणानन्तरं विज्ञानोपन्यासः कृतः । तत ईहा गृहीता । तत्रेदं तात्पर्यम् - अवधारितविप्रकीर्णपदार्थानां क्रमशः साङ्गोपाङ्गं क्रियमाणाऽधिगतिर्विज्ञानम् । ततश्च तद्गोचरा सम्भवतीहा - अनुकूलविचारणा |
एवमष्टधीगुणोपयोगेनैव सम्भवति सम्यक तत्त्वविनिश्चयः । अतः प्रकर्षतस्तत्त्वपक्षपातमवलम्ब्य विधिना विदध्यात्सूत्राध्ययनम् । उपदिष्टो द्वितीयसूत्रेऽसदभिनिवेशत्यागः । अत्र तु तत्त्वाभिनिवेशः प्रतिपादितः । एतदन्तरेणोद्भवत्युत्सूत्रभाषणकल्मषम्, उन्मार्गोपदेशकिल्बिषं च । तत्त्वाभिनिवेशे सति मन्यते जीवः - तत्त्वमेव सारभूतं विश्वेऽपि विश्वे । शिष्टं तु सर्वमप्यसारम् |