________________
१६४
पञ्चसूत्रोपनिषद् वा उड्डाहं ।। सव्वजिणपडिकुट्ठो अणवत्था थेरकप्पभेओ वा । इक्को सुआउत्तो वि हणइ तवसंजमं अइरा - इति (उपदेशमालायाम्) |
अषाढभूतिराचार्यो हि गच्छविमुक्ततया दिव्यनाटकप्रेक्षणार्थं षण्मासान् यावत् स्थितः । ततोऽप्येकाकिनं बालं दृष्ट्वा तत्स्वर्णालङ्कारलोभेन तं व्यापदयित्वा गृहीत्वा विभूषणानि चचाल न हि गुरुकुलवासे सति लज्जातोऽपीदृशमकार्यं स्यात् । अतो न मोचनीयो गुरुकुलवासः | ___ तथा श्रमणो गुरुप्रतिबद्धस्स्यात् । सर्वथाऽपि तदेकानुस्यूतस्तद्गोचरबहुमानप्रकर्षसमनन्वितश्चेति भावः । यथा - अहो भीमभवोदधितारकोऽयं महोपकारको गुरुः । अहो त्रिलोकीसाम्राज्यादप्यधिकदाताऽयं गुरु: - इत्यादि । एवं विचार्य बहुमानप्रकर्षं विशिष्टपक्षपातं च गुरुगोचरं धारयत्येषः । न च श्वासोच्छवासनिमेषोन्मेषादिका अपि क्रियाः करोत्येष गुर्वनुज्ञामन्तरेण | . ___ गुरुविमुखस्यापायाः - (१) कृतज्ञतागुणच्युतिः (२) गुरुकृतसारणाद्यसहनम् (३) गुर्वाशाताना तदाज्ञोल्लङ्घनादिकं वा (४) आत्मप्रशंसातो गुरोरप्यधिकोऽहमिति प्रदर्शनप्रयत्नः (५) गुर्वभिप्रायामार्गणम् (६) सिंहगुफावासिमुनिवद्दःसाहससम्भवः (७) बहुमानविरहेणाहङ्कारवृद्ध्या ज्ञानावरणादिकर्मबन्धः । एवञ्च गुरुविमुखस्यान्या विद्यमाना अप्याराधना विफलाः स्युः । गुरुबहुमानतो मृगावती - चण्डरुद्राचार्यशिष्यं - पुष्पचूलादयः कैवल्यं प्राप्ताः, अतोऽत्र यतनीयम् ।