________________
पञ्चसूत्रोपनिषद्
१६५ तथा विनीतः - अभ्युत्थानादिकायादिविनयपरो भवति श्रमणः । सदाप्येष तत्परस्स्याच्छुश्रूषादौ । हर्षेण स्वीकरोत्येष गुर्वाज्ञाम् । इङ्गितादिनाप्यवगच्छति गुरोरभिलाषम् । संवेत्त्येषः - विणयमूलो धम्मो - इति । ____ गुर्वविनयप्रयुक्तमपायषट्कम् - (१) औद्धत्य-प्रयुक्तकालुष्यम् (२) मदपोषः (३) सुखशीलत्वप्रयुक्तः कर्मबन्धः (४) विनयप्राप्यगुणाभावः (५) प्रवचनहीलना (६) दुर्लभबोधित्वं च । अन्यतीर्थिका अपि कुर्वन्ति विशिष्टं गुरुविनयम्, मुनेरविनयं दृष्ट्वा त उद्भावयन्ति जिनशासनमालिन्यमिति । किञ्च पञ्चाशत्सहस्रकेवलिगुरुादशाङ्गीस्रष्टा प्रथमो गणधरो गौतमस्वामी स्वयं ज्ञानचतुष्टयोपेतोऽपि चकार परमं गुरुविनयम् । अतस्तदालम्बनेनास्माभिरपि कर्त्तव्य एवैष शोभनतयेति ।
तथा भूतार्थदर्शी भवति श्रमणः । भूतार्थो नाम तत्त्वरूपः पदार्थः । तद्दीति तदुपासनैकलक्ष्यः, प्रकृते तत्त्वभूतः पदार्थ एषः, यथा - न ह्येनं गुरुकुलवासं विनाऽन्यद्धितकरं वस्तु नामेति । एवंविधदर्शनमप्यस्य जिनाज्ञानुसारित्वात् । जिनाज्ञा च यथोपदिशति गुरुकुलवासम्, तथा प्रागुक्तमेव ।। __ अपरोऽपि भवत्यर्थोऽयं भूतार्थदर्शिनः, यथा तत्त्वमात्रविश्रान्तदृष्टिस्स्यान्मुनिः । नैतन्मनस्यनुप्रविशन्त्यतत्त्वकल्पनाः । एकान्तवादः सर्वथा नित्यत्वरूपो ऽनित्यत्वरूपो वाऽतत्त्वम् । आत्मनो जगद्व्यापित्वं हिंसामययज्ञेन स्वर्गसाधनमित्याद्यप्यतत्त्वम् । तत्त्वभूता हि दानशीलतपःप्रभृतयः । अतत्त्वभूतास्तु