________________
पञ्चसूत्रोपनिषद्
१६३
भावेन भावनीयमत्र वंशगहनदृष्टान्तम्, यथा - यद्यपि निर्गतभावस्तथाप्यसौ रक्ष्यते सद्भिरन्यैः । वेणुर्विलूनमूलोऽपि वंशगहने महीं नैति - इति । गुरुकुलवासे हि लज्जया भयेन सदालम्बनेन वाप्युपशाम्यन्ति मोहवृत्तयः । प्राप्यते सम्यज्ज्ञानादिकम् । ततश्च नियोगतो निकटीभवति मुक्तिः ।
I
गुरुकुलविरहितस्य ह्यष्टावपाया भवन्ति । (१) नासौ विधिपुरस्सरं गुरोः सकाशादवाप्नोति शिक्षाम् । आचारप्रथमसूत्रे सुधर्मस्वाम्यप्याह - सुअं मे आवसंतेण भगवया एवमक्खायं इति । न हि गुरुकुलवासमन्तरेण सज्ज्ञानयोग इति तात्पर्यम्। (२) नैकाकिनो वैयावृत्यगुणयोगः । (३) नैकस्य विशिष्टतपः प्रभृतिनिरतमुनिसत्कमालम्बनं स्यात् । (४) उपद्रवन्त्य॒धमपुरुषा एकाकिनम् । (५) एको ह्याकृष्यते महिलागणं प्रति । (६) एकाकिनं सुखेन विलोभयन्ति स्त्रियः (७) सम्भवत्येकाकिनि मिथ्यात्विनामाक्रमणम्, स्वान् प्रति तदाकर्षणं च । (८) अनुचितेनोत्सर्गादिगोचराऽऽग्रहेणात्मविराधनादिकल्मषकलुषितो भवत्येकाकी । एवं रोगादावप्येकाकिनो विराधना द्रष्टव्या । तदार्षम् - कत्तो इक्कस्स धम्मो सच्छंदगइमइपयारस्स ? । किं वा करेउ इक्को ? परिहरउ कहमकज्जं वा ।। कत्तो सुत्तत्थागम पडिपुच्छण सुणणा य इक्कस्स । विणओ वेयावच्चं आराहणया य मरणंते ? ।। पिल्लिज्ज एसणं इक्को पइण्णपमयाजणाओ णिच्चभयं । काउमणो वि अकज्जं न तरिज्ज काउं बहुमज्झे ।। उच्चारपासवणवंतपित्तमुच्छाइ खोहिओ इक्को । सद्दवभायणविहत्थो, णिखिविज्ज करिज्ज