________________
१६२
पञ्चसूत्रोपनिषद् ___ एवं व्युद्ग्रहदुःखमप्यवगन्तव्यम् । केनचिद्व्युद्ग्राहितो ह्यबहुमानं प्रतिपद्यते गुर्वादौ, ततश्च चारित्रशैथिल्यं तद्भशं वाऽवाप्नोति, चिन्त्यमत्र सिद्धर्षिगणिवृत्तान्तम् ।
तथा प्रशमसुखसमेतो भवति श्रमणः, ग्रहाग्रहग्रहविमुक्ततया विमुक्तमोहत्वेन कषायोदयरहितत्वात् । क्रोधादयो हि दुःखम् । तदभावो हि सुखम् । अहङ्कारतृष्णालक्षणः क्षयरोगः क्षिणोत्यात्मनः प्रशमसुखम् । मारयति भावप्राणापहारेण । क्रोधादिविरहितावस्थाविशेषो हि प्रशमः । उक्तञ्च - क्रोधाद्यबाधितः शान्तः - इति । एतत्परिणतौ न कस्यचिदपि सामर्थ्य हृदयोदधिक्षोभाऽऽपादने । भावनीयमत्र नमिराजर्षिवृत्तम् । एवंविधगुणसम्पत्सम्पन्नो मुनिः कीदृशो भवेदित्याह - ___ सूत्र : गुरुकुलवासी, गुरुपडिबद्धो, विणीए भूअत्थदरिसी, 'न इओ हि तत्तं' ति मन्नइ ।
उक्तगुणो मुनिः सम्यग् गृह्णाति ग्रहणशिक्षामासेवनशिक्षा च । एतदर्थं समुपासते गुरुकुलवासम् । सुविहितगच्छ उषित्वा तन्मुद्रानतिक्रमपरो भवतीत्यर्थः । ततश्च भवत्यस्य ज्ञानादिलाभः, यत् पारमर्षम्-णाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य | धण्णा आवकहाए, गुरुकुलवासं न मुंचंति - इति नातोऽपि परः कश्चिदाराधनीयः, नातो परं किमपि हितकृत्, अत एवोक्तम् - एसा च परा आणा पयडा जं गुरुकुलवासो न मुत्तव्यो - इति (पञ्चाशके) न हि गुरुकुलवासे स्वैरतावकाशः, ततश्च सुखेन भवति दौर्बल्यं मोहस्य । यद्यपि कदाचित् कर्मवैचित्र्यादुदेति मोहः, तथापि रक्ष्यत आत्मा गुरुकुलवासानु