________________
पञ्चसूत्रोपनिषद्
१६१ मेवापरैर्मद्वचः - इत्याद्याकारकोऽभिनिवेशः शोभास्पदतामृच्छति । किञ्चैवमभिनिवेशः पुण्यमान्द्ये सतीष्टासिद्धेः प्रसूते तीव्र सङ्क्लेशम् । एवं क्रोधमायाद्याग्रहोऽप्यसन् व्यर्थश्च । पुण्योदयविरहाद्यदा तदाग्रहो मुधा भवति, तदा निन्दति तद्वान् लोकम्, यथा स्तब्ध एषः, न शृणोति कस्यचित् किञ्चिदिति । ___ तथा मिथ्याविकल्पाऽऽग्रहणे मार्गभ्रंशोऽपि स्यात्, यथा जमालेरभवत् । संस्तारको हि क्रियमाण: कृत इति न तेनाऽऽग्रहवशतयोरीकृतम् ।।
(२) अग्रहोऽज्ञानम् । एतदपि महद् दुःखम्, असद्विकल्पोदयव्यर्थव्याकुलत्व-कर्मबन्धादिनिबन्धनत्वात् । अतो मुनिः प्राप्नुयात् सम्यग्ज्ञानम्, विहरेद् गीतार्थनिश्रया । ततोऽस्य न सङ्क्लेशसम्भवः । तथा यावज्ज्ञानं कर्मोदयानोदेति, यावानग्रहो भवति, तद्धेतुकमपि न शोकं कुर्यात् । किन्तु सम्यग् विषहेताज्ञानपरीषहम् । जिनाज्ञानुसरणमेव मम कर्त्तव्यम्, पूर्वबद्धज्ञानावरणकर्मोदयतितिक्षा चेति विचारणीयम् । भावनीयमत्र यवराजर्षिवृत्तम्, उत्तराध्ययनतुर्याध्ययनाधीतौ द्वादशसंवत्सरान् यावदाचामाम्लकृन्मुनिदृष्टान्तं च । .
(३) ग्रहः परिग्रहः पूर्वग्रहो व्युद्ग्रहो वा । एषोऽपि महत्कष्टम् । परिहर्तव्य एष श्रमणेन । अर्थानामर्जने दुःखमर्जितानां च रक्षणे | आये दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम् - इत्यादिना परिग्रहप्रयुक्तं दुःखं प्रसिद्धमेव । विचिन्त्यमत्र रत्नाकरसूरिज्ञातम् । पूर्वग्रहोऽप्युरीकारयति चारित्रशैथिल्यम् । आर्यरक्षितसूरिपितृमुनिवृत्तं ज्ञातमत्र ।