________________
१६०
पञ्चसूत्रोपनिषद् समशत्रुमित्रो भवत्यसौ । न रिपुगोचरो द्वेषोऽस्य, नापि मित्रविषयो रागः ।
ननु वीतरागस्यैव सम्भवतीदं समदर्शनम्, न तु दीक्षितमात्रस्येति चेत् ? न, गुणेषु दोषेषु वाऽवस्थावैचित्र्यसम्भवात् । परमं हि समदर्शनं वीतरागे, इतरत्तु श्रमणेऽपि सम्भवति । एतदभ्यासेनैवावाप्यत उत्कृष्टो गुणः । अत एतद्भ्यासे यतितव्यम् । तद्यत्नतो हि सिध्यत्युत्तरोत्तरविशुद्धः समभावः । अतो भावनीयमनित्यं पुद्गलस्वरूपम् । विचारणीया विष्टायामपि स्वर्णपरिणामपरिणतिः । एतद्विमर्शेनैव न लुब्धः कोटिद्रव्ये वज्रस्वामीति स्मर्त्तव्यम् । समशत्रुमित्रभावेन हि जिंगाय मोहं स्कन्दकमुनिः । शत्रुरपि मित्रतां प्रयाति, मित्रमपि च शत्रुतामिति को न्वेतयो रागरोषाविति विचिन्त्यम् । ___ तथा दीक्षित आत्मा (१) निवृत्ताऽऽग्रहदुःखो (२) निवृत्ताऽग्रहदुःखो (३) निवृत्तग्रहदुःखश्च भवति । तत्र (१) न ह्यसद्गोचर आग्रहो भवति मुनेः । आग्रहो नामाहङ्कारलोभादिप्रसूतोऽतत्त्वाभिनिवेशः । एष एव दुःखम्, आत्मपीडा- . प्रयोजकत्वात्, दुःखसन्दोहनिबन्धनत्वात् । संवेत्ति श्रमणः, यथा कदाग्रहेण पुष्यते मदः, वञ्च्यत आत्मा सन्मार्गगमनात्, जन्यन्तेऽनेककुविकल्पा दुर्ध्यानविशेषाश्च । __ को नामाल्पपुण्यस्याऽऽग्रहः । सुखं हि पुण्यावाप्यंम् । न हि मूल्यदानं विनावाप्यते कुत्रापि क्रयांणकम् । पराधीनो हि वर्तते जीवोऽनन्तकर्मपुद्गलानाम् । न हि परतन्त्रस्य क्वाप्याग्रहः सङ्गतिमङ्गति । न ह्यवशस्य-सम्माननीयमेवाहम्, मन्तव्य