________________
पञ्चसूत्रोपनिषद्
१५९ प्रयोजकतया वीतरागरागः सर्वथाऽनासक्तभावहेतुः । विलोकनीयमत्र नागकेतुवृत्तान्तम् । (२) यद्यपि सुक्षेत्रादिसामग्रीवैकल्यादनिष्पत्तिर्धान्यस्य, नैवं बीजस्य धान्योपायत्वमपास्यते, सामग्रीयोगे तस्यैवोपेयसाधकत्वात्, एवं प्रकृतेऽपि द्रष्टव्यम् । किञ्चोपायसम्पादकोऽप्युपायतयैव व्यपदिश्यते । यथा मङ्गलं विघ्नविनाशहेतुतया कार्यसिद्ध्युपायोऽभिधीयते । (३) तथा गुरुयोगश्चारित्र-शुद्धिनिबन्धनम्, गुरुविनयवाचनाग्रहणाऽऽसेवनशिक्षादिहेतुत्वात्, तदन्तरेण तदसम्भवात् । न हि श्रमणभगवान्महावीरयोगेन विनेन्द्रभूतेश्चारित्रप्राप्त्यादिकमभविष्यदिति विचारणीयम् । __शुद्धो ह्युपाय उपेयसाधकः, अतो न शुद्धिमात्रम्, अपि तु शुद्धोपाय एव हे तुतया मन्तव्यः । निराधारायाः शुद्धेरवस्थानासम्भवात् । शुद्धज्ञानेन यथा पण्डितो व्यपदिश्यते, न तु शुद्धिमात्रात् । किञ्चाशुद्धिभावेऽपि व्यवहारतस्तूपाय उच्यतेऽपीति प्रागुक्तमनुसन्धेयम् । ।
परिहृत्य विपर्यासमवलम्ब्य महासत्त्वं वर्द्धमानपरिणामेनाऽऽराध्यमानं चारित्रमवश्यं प्रयच्छति प्रव्रज्याफलमित्यत्र निष्कर्षः |
(१) समत्वादिसाधनम् सूत्र : से समलेठुकंचणे, समसत्तुमित्ते निअर्तग्गहदुक्खे, पसमसुहसमे, सम्मं सिक्खमाइअइ ।
समभावो भवति श्रमणस्य लेष्ठौ सुवर्णे च । नास्योपादेयमतिरुदेति सुवर्णादौ, नापि हेयमतिर्मृत्तिकादौ । किञ्च