________________
१५८
पञ्चसूत्रोपनिषद् माराधना कर्त्तव्या ।
नन्वेवमविधिलेशलक्षणविपर्यासयोगेन प्रतिलेखनादिक्रियावैफल्यं स्यादिति चेत् ? न, यद्यपि निश्चयदृशा सा क्रिया नोपायभूता, नापि शुद्धव्यवहारदृशा । तथापि प्रथमत एव शास्त्रोक्तं सर्वथा शुद्धं विधिपालनं दुर्लभम् । तत्तु क्रमेण सिध्यत्यभ्यासवशात् । अतो निर्दम्भेन प्रगुणेन हृदयेन लक्षीकृत्य शुद्धव्यवहारं तथाविधशक्तिबोधविकलत्वेनाशुद्धव्यवहारप्रवृत्तिः क्रियते, सापि शुद्धव्यवहारप्रवृत्तिकारणं भवति, उक्तञ्च - अशुद्धाऽपि हि शुद्धायाः, क्रिया हेतुः सदाशयात् । तानं रसानुवेधेन स्वर्णत्वमधिगच्छति - इति (अध्यात्मसारे)। एवमेव सिद्धिं गता अनन्ता जीवाः । अतो व्यवहारनयेन शुद्धानुष्ठानकारणभूतमशुद्धमप्यनुष्ठानमुपाय एवोच्यते । विधिपालनपक्षपातोऽविधिगोचरहेयमतिरविध्यनुशयस्तु तत्राप्यावश्यक इति ध्येयम्, इत्थमेव तत्र शुद्धक्रियाहेतुत्वनिर्वाहात् । विपर्यासोदये त्वविधिलक्षणं हेयमेव प्रतिभासत उपायतया । ततश्चोपायाऽऽभासप्रवृत्तैर्वैफल्यमृच्छति तत्क्रिया । __ अथ (१) कार्यजननं यतो भवति, तच्चरममेव कारणमस्तु, न तु पूर्वतनम् । (२) यद्वोपायोऽपि कश्चित्सामग्रीविरहे न साधयत्युपेयम्, ततश्च तदुपायत्वायोगः । (३) यद्वा शुद्ध्यनुभावेनैव कार्यजननाच्छुद्धिरेवोच्यतां कारणतया, न तूपाय इति । ___ अत्रोच्यते । (१) तज्जनकजनकत्वेन प्राक्तनान्यपि व्यवहारेण तत्कारणानि व्यपदिश्यन्ते । यथा गृहादिरागापगमे