________________
पञ्चसूत्रोपनिषद्
१५७ शिक्षाग्रहणादेरपि चारित्रानुपायत्वमवगन्तव्यम् । ..
ननु चाभ्यासदशायामविधियुक्तमपि शिक्षाग्रहणमुपादीयते, तत्रोपायत्वभिमतमेवेति चेत् ? सत्यम्, किन्तु व्यवहारदृशा, प्रकृतवक्तव्यता तु निश्चयनयमता, सूक्ष्ममतिगम्या चैषा । न हि फलानुत्पादक उपायः, परेषामपि तत्त्वप्रसक्तेः, न हि साध्यमसाधयत् साधनमुच्यते । यथा न रागदशा वीतरागावस्थाहेतुतामृच्छति, असक्तदशाया एव तत्तालङ्कृतत्वात् । न च प्रीतिभक्तिवचनानुष्ठानान्यप्युपायभूतानि, रागदशात्मकत्वात् । अपि त्वसङ्गानुष्ठानमेवोपायभूतं वीतरागत्वस्य | रागस्तु प्रतिबध्नाति वीतरागभावम् । कथमेष तत्कारणतया वक्तुमुचित इति ।
नन्वेवं प्रीत्याद्यनुष्ठानान्यनाराधनीयानीत्यायातमिति चेत्? न, व्यवहारनयेन तदाराधनाया अप्युपयुज्यमानत्वात् । न हि वीतरागत्वप्रयोजकः सर्वरागोच्छेदो धनादिगोचररागापगममन्तरेण सम्भवी । अतस्तदपगमार्थं जिनादिगोचररागप्रतिष्ठाऽऽवश्यका । एवं हि तदुपासनयोच्छिद्यतेऽप्रशस्तरागः सम्पूर्णतया । ततोऽपि क्रमेण वीतरागप्रणिधानप्रकर्षप्राप्तेरुदेत्यसङ्गानुष्ठानम् । ततश्च करतलगतं वीतरागपदम् । इत्थञ्च प्रीत्याद्यनुष्ठानानि निबन्धनभावं प्रतिपद्यन्तेऽसङ्गानुष्ठाने । अत उपादेयान्येतान्यपि ।
ननु चैवं निश्चयनयेनाप्येतान्युपायतयैव मन्तव्यानीति चेत्? न; तस्य सूक्ष्मदृक्त्वात् । एष हि तदेव कारणतया मन्यते, यन्नियोगतः कार्यकृत्स्यात् । एवं निश्चयदृष्टिं सम्प्रधार्य व्यवहाराऽऽदरेण प्राप्यते निश्चयाभिमत उपायः । तत्प्रापको व्यवहार एव तात्त्विकः । अतो विमुच्य विपर्यासं विधिपुरस्सर