________________
१५६
पञ्चसूत्रोपनिषद् रिति यदुक्तं तत्सामान्यतोऽवगन्तव्यम् । विशेषतस्तु सामग्र्यपीष्टसिद्धेरावश्यका । किन्तु तत्र प्रवृत्तिरपि विपर्यासविगम एव सम्भवतीति ध्येयम् । __ सूत्र : एअअभावे अभिप्पेअसिद्धि उवायपवित्तिओ । नाविवज्जत्थोऽणुवाए पयट्टइ । उवाओ य साहओ नियमेण। तस्स तत्तच्चाओ अण्णहा, अइप्पसंगाओ । निच्छयमयमेवं |
उक्तरीत्या प्रव्रज्यापरिपालनकाले यदि विपर्यासं न गच्छति, प्रवर्त्तते च चरणोपायेषु, तदा परमार्थचरणपालनं मोक्षलक्षणं च तदिष्टफलं सिध्यति । यत्किञ्चिद्विपर्यासभावे तु बाह्य चरणमात्रं स्यात्, न तु परमार्थोपाये प्रवृत्तिः, यथा विधिविपर्यासे विनयविकलत्वादिलक्षणे सति शिक्षाग्रहणमपि न भवति परमार्थचारित्रोपायः । अतस्तस्यां शिक्षायामुपायत्वायोगः | तामासेवमानश्च पुरुषो विपर्यस्त इत्युच्यते ।
अविपर्यस्तस्तु न प्रवर्त्तत उपायाऽऽभासरूपेऽनुपाये, सत्साधनमात्रप्रवृत्तत्वात्तस्य । अभिमतफलसदुपायमवगम्य तत्र प्रवृत्तिरेवाभ्रान्तत्वलक्ष्म, त एवेष्टफलनिष्पत्तिश्चेत्याकूतम |
उपायस्तु साधयत्येवेष्टकार्यम् । परमार्थोपायेन नियोगतः फलप्रसूतिरिति भावः । यदि तु नास्य विद्यते कार्यजननसामर्थ्यम्, तदोपायत्वमेवास्यानुपपन्नम्, उपेयसाधनत्वलक्षणस्वान्वर्थविकलत्वादस्य । एवं सत्यपि चेदसावुपायत्वेनाभिधीयते, तदाऽतिप्रसङ्गः, यत्किञ्चिद्-वस्तुन उपायत्वप्रसक्तेः, अभिमतासाधकत्वाविशेषात् । एवं च विकथादेरपि चारित्रोपायत्वमभ्युपगतं स्यात् । न चैवमभ्युपेयते, अतोऽविधिकलङ्कित