________________
पञ्चसूत्रोपनिषद्
१५५ नैनमपि विपर्यासमेति चारित्री । (१) सम्यग्दर्शनज्ञानचारित्राण्येव मोक्षमार्गः, ज्ञानक्रियाभ्यां मोक्षः, इति सिद्धान्तसंवेदनसम्पन्नत्वात्तस्य । यदि त्वसंयमसञ्ज्ञावशत्वादिकं विद्यमानं स्यात्, तदैकाकी विरागः किं कर्तुं शक्नुयात् । प्रतिज्ञाप्रयुक्तचारित्रे सति संयमक्रियासु सत्सु च विरागवृद्धिक्रमेण वीतरामभावोदयसम्भवः, नान्यथा । किञ्च तात्त्विको विरागस्त्याजयत्येवाचारित्रमयं गृहवासम् ।
. (२) स्वरसानुभावेन हि गृहादिक्रियासु न प्रतिभासते कष्टम् । अतो विपुलेन स्वरसेन कर्त्तव्याश्चारित्रक्रियाः । न ह्यसत्क्रियासत्काः प्रबलाः संस्कारा विशिष्टस्वरससचिवां सत्क्रियामन्तरेणापनेतुं शक्याः । सूक्ष्मतराश्चरणमुद्रा अपि महाव्रतसंरक्षणार्थाः । पञ्चाचारप्रपञ्च आत्मानं ज्ञानादिभावितं विधत्ते । न ह्यनेन विना ज्ञानाद्येकायनीभावः सानुबन्धतां प्रापयितुं शक्यः ।
(३) अपवादस्तूत्सर्गरक्षार्थं भवति, न तूत्सर्गोन्मूलनार्थम् - इतिविभावनेनापगच्छत्यपवादमात्रपक्षपातः । एवमुत्सर्गमात्राऽऽग्रहोऽप्यसन्, तथाविधद्रव्यादौ सर्वभ्रंशप्रसक्तेः, असमाधिप्रसङ्गाच्च । तत्रापवादसेवनमुत्सर्गाऽऽचरणसमानोद्देशं भवति । रत्नत्रयीसमाधिपवादोद्देश इति हृदयम् । अत एवोच्यते लोकेऽपि - सर्वनाशे समुत्पन्ने, अर्धं त्यजति पण्डितः । अर्धेन कुरुते कार्य, सर्वनाशो हि दुस्सहः - इति ।
शास्त्रज्ञान - सद्गुरु-मार्गानुसारिसन्मतिलक्षणं त्रितयं सर्वत्रापि विपर्यासज्वरशमनीयम् । विपर्यासविरह एवेष्टसिद्धि