________________
१५४
पञ्चसूत्रोपनिषद् भूतेष्वपि साध्वाचारेषु कष्टबुद्धिरनिष्टा एत इतिमतिश्च ।
न च सम्प्राप्तचारित्र आत्मा विपर्यमेति । न प्रहृष्यत्यसौ मनोज्ञविषयादिकं प्राप्य । नोद्विजति प्राप्याप्रियम् । न सन्त्रस्यति परीषहादितः । न स्मरति गृहिभावानुभूतं सौख्यम् | न गणयति मानापमाने । विचिन्तयत्यसौ - यथेन्द्रियसुखं दुःखसन्दोहनिबन्धनम् । समग्रदुःखान्तकरं तु चारित्रमेव । तत्प्राप्य किन्नु ममानुशोचनम् ? - इति । जानात्यसौ नरकनिगोदादिभवं दारुणं दुःखम् । वेत्ति च तदुद्धारोपायतया चारित्रम् । प्रत्येति सारणादिकं मुनिजनवात्सल्यत्वेन । न स्पृश्यत एष मिथ्याविकल्पेन । भावनीयानि विपर्यासविगमे मेघकुमारार्द्रकुमारप्रभृतिवृत्तान्तानि । यद्वाऽनतिपुष्टालम्बनेऽपवादसेवनमतिरूपोऽप्यवगन्तव्यो विपर्यासः । यथा - यदि सन्मत्यादिशास्त्राध्ययनार्थमाधाकर्माहारोऽनुज्ञातः, तदाऽस्माकमप्यस्त्वेषोऽध्ययनार्थम् - इत्यादि । भावनीयमत्र विकृतिलाम्पट्यलक्षणविपर्यासवृत्तमार्यमङ्गोः । .
यद्वा विपर्यास एवम् (१) किमेतच्चारित्रं मोक्षकारणं भविष्यति? परे तु - ज्ञानवैराग्याभ्यां मोक्ष इत्याऽऽस्थिताः अतो नैतानि चरणाचरणकष्टानि सहितव्यानि - इति । (२) यद्वाऽहो चरणक्रियाविस्तरः । अगण्याः खल्वत्र सूक्ष्मतरा। मुद्राः। सुदीर्घः पञ्चाचारप्रपञ्चः । तदेनं विमुच्यापवादमार्ग एव निषेव्यः, तस्यापि शास्त्रोक्तत्वात् - इति । (३) यद्वा कातराणां स्वल्वयमपवादमार्गः | मोक्षस्त्वेकान्तोत्सर्गमार्गमात्रप्राप्य इति ।