________________
पञ्चसूत्रोपनिषद्
.१५३ एतत्सन्त्यागार्थं विचारयेद्यथा सर्वज्ञोपदिष्टः खल्वयं मार्गः | स्वयमाचरितश्च - सर्वज्ञैः । कारिताश्च तैस्तदनुपालनं गणधरादयः । न ह्यत्रान्यथाभावलेशोऽपि सम्भवति । न ह्येतदितरदर्शनवदसर्वज्ञशासनम् । अतो नात्र फलसंशयः कर्तव्यः । तथोत्सर्गापवादगोचरमश्रद्धानमपि परिहार्यम् । अहा! बाढं सूक्ष्म उत्सर्गः ! किमेष एवमेव भविष्यतीत्याद्याशङ्का न कार्येत्यर्थः । एवमेतादृशोऽपवादः कथन्न कुर्याद्वतभङ्ग मेवमपवादगोचरोऽप्रत्ययोऽपि त्याज्यः । मेतार्यमुनिना प्राग्भवेऽस्नानगोचरा जिनाज्ञा न श्रद्धानविषयीकृता । ततश्च चण्डालकुलेऽवाप्तं जन्म । एवं शिवभूतिमुनिनाऽपवादे कृताऽऽशङ्का, ततश्च भ्रान्तेनोद्भावितो दिगम्बरमतः |
बहुमानाभावेन हि विपर्ययलक्षणा भ्रान्तिर्भवति । अतो धर्त्तव्यो बहुमानप्रकर्षश्चारित्रे । श्रूयते सौगतेन प्राग्गृहीता जिनदीक्षा । ततश्च तपःपरीषहसहनादावबहुमानात्त्यक्ता सा । स्वच्छन्दं भुक्त्वा पीत्वा च ध्यानं करणीयमित्याद्याचारमयो मध्यममार्गो माध्यमिकबौद्धधर्मः प्रवर्तितः । न तु ज्ञातमनेन यत्त्यागतपःप्रभृत्यभ्यासमन्तरेण दुर्घटमिन्द्रियमनोनियन्त्रणम्, तदन्तरेण चासम्भवी शुभध्यानोदयः ।
रागोद्रेके सति तथा भवति विपर्ययः, यथा प्राप्नोति जीवश्चारित्रभ्रंशम, अरणिकमुनिवत् । अतो निराकर्त्तव्यो रागः प्रयत्नतः ।
किञ्चानेकप्रकारो भवति विपर्ययः । (१) यथेन्द्रिय-विषयकुमत-सत्कारादिकेषूपेक्षणीयेष्वप्युपादेयमतिः (२) कर्मक्षयोपाय