________________
१५२
पञ्चसूत्रोपनिषद् उत्सूत्रभाषणादि-दोषनिकुरम्बरूपम् । एतत्परिहारेणैव सम्भवत्युत्तरोत्तरचित्तविशुद्धिः ।
किञ्च धारणीयं महासत्त्वम् । तदभावे हि तथाविधकष्टोदये सम्भवेच्चित्तसङ्क्लेशः । एवं विशिष्टत्यागतपोवैयावृत्यप्रत्यलं सामर्थ्य नोपयुज्येत धर्माराधनायाम् । विघ्नेषु हतोत्साहं भवेच्चित्तम् । नोद्भवेदप्रशस्तविकल्पनिरोधसामर्थ्यम् । न सहनत्वं स्यात्कटुवचनश्रवणे । समुदयस्स्यादैन्यस्य । यत्किञ्चिद्गोचरेणापि लोभेन भवेत्प्रतिज्ञातभङ्गः । अत आविर्भावयितव्यं सत्त्वम् । - एतदर्थमप्यालम्बनीयानि महापुरुषवृत्तानि । विचारणीयम् - लोकेऽपि सात्त्विकेनैव जीयते परवाहिनी । उद्धूलिकोऽपि नान्येषां दृश्यतेऽह्नाय नश्यताम् । लोकोत्तरान्तरङ्गस्य मोहसैन्यस्य तं विना । सम्मुखं नांपरैस्स्थातुं शक्यते नात्र कौतुकम् - इति (योगसारे ४ -) । ततश्च यस्यां कस्याञ्चिदप्यापदि धारणीयं सत्त्वम् । न वशे गन्तव्यं रागद्वेषयोः । अवलम्बनीयं माध्यस्थ्यम् । परीषहंसहनं तु धर्म एव श्रमणसिंहानाम्, अत एवार्षम् - मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः - इति (तत्त्वार्थसूत्रे)
यथा च चरणाराधनागोचरे न विपर्यासमेत्यात्मा तथा यतितव्यम् । मा भूदस्योन्मार्गे मार्गभ्रान्तिः । अत एव पारमर्षम् - जाए सद्धाए णिक्खंतो तमेव अणुपालिज्जा - इति (आचाराङ्गे) तथा विजहित्ता विसोत्तियं - इति (आचाराङ्गे) सन्त्यज्य विस्रोतिकाम् - मार्गस्खलना-मिति ।