________________
पञ्चसूत्रोपनिषद् सूत्रकारः
वर्द्धमानसमुल्लासो भवति चारित्रप्राप्त आत्मा । वर्द्धन्तेऽस्य जिनाज्ञानुपालनगोचराभिलाषाः, तत्स्पर्द्धयैव च चित्तविशुद्धिः । एवं हि तदैव सम्भवति यदा कुत्रापि नानादरो भवेत्तस्य, नाप्यश्रद्धा स्यात् । न हि चित्तमालिन्ये सति सम्भवत्यखण्डं चारित्रपालनम् । तन्मालिन्यं च सम्भवति (१) चरणाचरणोत्साहमान्द्यात (२) स्वजनादिगोचरस्नेहोदयात (३) धनाद्यभिलाषयोगात् (४) सुखशीलत्वपोषणार्थ-मारम्भसमारम्भोदयात् (५) क्रोधादिवशेनासत्यभाषणात् (६) कथन्नामाभीक्ष्णमवग्रहो याच्यते इति विचिन्त्यादत्ता-दानाभिलाषकरणात् (७) स्त्रीरूपावलोकनाद्यभिलाषात् (८) पूर्वक्रीडितानुस्मरणात् (९) उपकरणबकुशत्वादिदोषानुषङ्गात् (१०) इत्थञ्च विस्मृत्य सर्वविरतिपरिणाममंशेनापि पञ्चमहाव्रतोल्लङ्घनेच्छोदयात् (११)
'
१५१
जिनाज्ञाभिहित-प्रवृत्तिनिवृत्तिगोचरवचउल्लङ्घनाभिलषणात् (१२) सामाचार्यां शैथिल्यप्रतिपत्तेः (१३) अन्यतरनिषिद्धकार्यप्रवृत्त्यभिलाषाच्च एवं हि मलिनीभवन्ति चारित्रपरिणामः । अतो परिहार्याण्येतन्मालिन्यनिबन्धनानि । वृद्धिं नेया भावविशुद्धिः । उद्यतितव्यं दोषपङ्कप्रक्षालने । त्याज्यमन्यदपि चित्तमालिन्यनिबन्धनम् । तच्चेर्ष्याऽसहिष्णुताऽसद्विषयजिज्ञासाऽऽकुलताऽहङ्कारेन्द्रियवशवर्त्तिता-क्रोधादिकषायआर्त्तरौद्रध्यान- गौरव-शल्याऽऽहारादिसञ्ज्ञा-राजकथादिविकथास्वार्थान्धता- कृतघ्नता ऽनौचित्य-रागादिसङ्क्लेशपरसङ्क्लेशोपेक्षा-अविनय-पवित्रक्रियागोचरानादरखेद
-
-