________________
१५०
पञ्चसूत्रोपनिषद् निष्कलङ्कचारित्रो ह्यवाप्नोति स्वास्थ्यसौख्यम् । अलङ्क्रियते नवनवश्रद्धासंवेगसंवेदनैः । मलिनशीलस्तु समापद्यते शङ्काम् । आस्ते दूनचित्तः । भवति हीयमानपरिणामः कलङ्किताचारश्च । ततश्च भवत्यसौ मन्दश्रद्धः । पतति दुर्ध्यानावर्ते । अतो विभावनीयम्, यथा- किमशेषसंसारं परिहृत्य दुष्परिहारश्चारित्रातिचारः ? - इति । एवं विभाव्य प्रयतेत चारित्रविशुद्धौ ।
सुविधिभावतः क्रियाफलेन युज्यत इति यदुक्तम्, तत्रैतदवधेयम् - त्रिविधो ह्यवञ्चकः, योगावञ्चकः क्रियावञ्चकः फलावञ्चकश्च । तत्रासौ मुमुक्षुर्विधिपुरस्सरं गुरुणा गुणेन वा सह योगप्राप्त्या योगावञ्चकः सञ्जातः । अवञ्चको नाम स यो न परं वञ्चयति यश्च न निष्फलतामृच्छति । नियोगतः साफल्यसंयोगीत्यर्थः । क्रिया च प्रकृते फलम् । अतोऽसौ क्रियाऽवञ्चकऽपि भवति । यदि ह्यस्य गुरुणा सहाद्वेषादिगुणेन वा सह सञ्जातस्तात्त्विको योगः, तदाऽसौ गुरुविनयादिकया तत्त्वश्रवणादिरूपया वा क्रियया संयुज्यत इति भावः । ___ न हि गृहादिव्यापारेऽत्यन्तं सक्तस्य गुरुसंयोगो भवति । एवं योगावञ्चकत्वविरहे क्रियाऽवञ्चकत्वस्याप्यसम्भवः । चारित्रगुणप्रतिपत्तिरपि यद्यविधिना विहिता स्यात्, तदा समीचीनयोगावञ्चकत्वविरहात् क्रियाऽवञ्चकत्वस्याप्यभावः । सुविधिप्राप्तचारित्रयोगो हि तत्फलतया प्राप्नोति क्रियाऽवञ्चकत्वम् । ततश्चैकायनतां व्रजत्यस्यात्मा चारित्रानुष्ठानेन सह । एतदवस्थान्तराधिगमार्थमुपायमाह