________________
पञ्चसूत्रोपनिषद्
१४९ जिनाज्ञाऽऽराधनमेव परं हितम् । मोक्षरूपश्रेष्ठकल्याणाभिलाषिणावगन्तव्यमेतद् यन्न जिनाज्ञाराधनादपरः कश्चित्तात्त्विको मोक्षमार्गः । अत एषैवाराधनीया, परिहर्त्तव्या च तद्विराधना । एवं तत्त्वतः प्रव्रज्याग्रहणविध्यर्थसूचकं सूत्रं समाप्तम् ।
इति तृतीयं सूत्रम्
अथ प्रव्रज्यापरिपालनाभिधं . चतुर्थं सूत्रम्
(१) विधिफलम् सूत्र : स एवमभिपव्वइए समाणे, सुविहिभावओ किरिआफलेण जुज्जइ । विसुद्धचरणे महासत्ते न विवज्जयमेइ।
- पूर्वोक्तप्रव्रज्याविधेः सम्यगनुपालनाच्चारित्र्यवाप्नोति सत्क्रियाऽऽत्मकं फलम् । सर्वमप्येतत्प्रागुक्तक्रमेणैवावाप्यते । न हि विधिपूर्वकप्रव्रज्याग्रहणमन्तरेण सम्यक्प्रव्रज्याक्रियावाप्तिः । विधिग्रहणं हि कारणम् । तच्च जनयति स्वकार्यं विधिपालनरूपम् । मुमुक्षुरभूदद्य यावद् गृहिक्रियाविशुद्धिमान् । साम्प्रतं स विशुद्धश्रमणाचारो भवति । यततेऽसौ गुरुनिश्रायाम् । पराक्रमति तपः संयमयोः । सन्निमज्जति स्वाध्याये । परिपालयति सामाचारीम् । धारयति परमं बहुमानं चारित्राराधने । अभिलषति तद्विशुद्धिम् । परिहरति तन्मालिन्यनिबन्धनम् ।