________________
१४६
पञ्चसूत्रोपनिषद्
मुमुक्षोर्गुरोः सकाशादेव तद्विज्ञानयोगः, अतः प्रथमं गुरुसान्निध्याभिधानम् । किञ्च गुरुर्वेत्त्युत्सर्गानपवादाँश्च । अतो तन्निश्रायामेव सम्भवि चारित्रपालनम्, तस्यैव गुरुलाघवालोचनप्रत्यलत्वात् । मा भूदनादिकुवासनाप्रबोधः सहसा कदाचित्, अतः गुरुनियन्त्रणमावश्यकम् । उपबृंहणया संशोधनेन चाराधनास्थैर्यशुद्धि-वृद्धयो गुरुणैव सम्भवन्ति ।
किञ्च महागभीरमनुष्ठानमिदं प्रव्रज्योरीकारलक्षणम् । यदि चेतरमपि शुभकर्मेष्टदेवतानमस्कारादिरूपमङ्गलपुरस्सरमेव क्रियते, तदा प्रकृते तु किं वाच्यम् ? अतोऽर्हत्पूजाकरणमुपदिष्टम् । तथा गुरावात्मसमर्पणं क्रियते, अतः प्रथमं तत्सत्कारः कर्त्तव्यः, अतस्तदुपदेशः । तथा सर्वजीवगोचरकारुण्यपुण्यता हि चारित्रम् । अतस्तद्ग्रहणात् पूर्वं दीनादिभ्यो दद्याद्दानम् । एतेन हि तादृशानां शुभेच्छायोगात्प्रशस्त भावोल्लासोदयः ।
मा भूद्वर्त्तमाने दीक्षाविधौ कायिक्यादिबाधा, अतः प्रथमत एव तत्परिहरणं न्याप्यम् । मुण्डनं केशोच्छेदः । स च स्मारयति रागादिक्लेशोच्छेदलक्षणं कर्त्तव्यम् । स्नानमपि स्मारयति भावस्नानम् । वेत्ति मुमुक्षुर्यथाऽहं रागाद्युच्छेदपुरस्सरं भावमालिन्यप्रक्षालनाय प्रव्रजामीति । वेषपरिवर्तनं सूचयति हृदयपरिवर्त्तनम् । विस्मारयत्येतत् संसारम् । गृहिवेषो ह्यारम्भसमारम्भपरिग्रहादिभिः सह बाढं सम्बद्धः । तं परिहृत्य मुनिवेषधारणेन सर्वविरतिसंवेदनोदयः । एतदेव संवेदनमनेकधा रक्षति श्रामण्यम् । मुनिवेषेणैव रक्षितः प्रसन्नचन्द्रो राजर्षिः सङ्क्लिष्टादध्यवसायात् । किञ सुखेनैव परिह्रियन्तेऽनेका