________________
पञ्चसूत्रोपनिषद्
१४५ किवणाई, (५) सुप्पउत्तावस्सए, (६) सुविसुद्धनिमित्ते, (७) समहिवासिए, (८) विसुज्झमाणो महापमोएणं सम्मं पव्वइज्जा लोअघम्मेहिंतो लोगुत्तरधम्मगमणेण |
एवं भावतः कस्यापि कमपि सन्तापमनुत्पाद्य, सद्गुरुसमीपमागम्य सम्यगङ्गीकुर्याच्चारित्रम् । न हि गुरुमन्तरेणाधिगमो ज्ञानस्य । गुरुर्हि मुक्तिमार्गदीपकः । गुरुः प्रत्यक्षं दैवतम् । न हि सद्गुरुं विना क्षणमपि स्थातव्यम् । दीक्षा शिक्षा च सद्गुरुभाव एव सम्भवति, प्रव्रज्याया ग्रहणाऽऽसेवनशिक्षयोश्च गुरुभाव एव भावात् । मा भूत् स्वैरविहारेणोन्मार्गगमनम्, मा भूदनाद्यभ्यस्तमोहप्रयुक्तं छलनम्, एतदर्थमावश्यका विशिष्टसंयमादिगुणालङ्कृतस्य विदितमोहचिकित्साशास्त्ररूपजिनागमस्य गीतार्थस्य सद्गुरोनिश्रा । चरणोरीकारस्य प्राक् स्वशक्त्या श्रीवीतरागतीर्थकराणामष्टाह्निकादिपूजां कुर्यात् । सत्कारयेत् श्रमणानाहारवस्त्रपात्रादिवितरणेन । सन्तोषयेद्विभवानुसारेण धनदानेन कृपणादीन् । ततः कायिक्यादिबाधापरिहार-लक्षणमावश्यकम् । ततो मुण्डनं मङ्गलस्नान-मुचितवेषपरिधानमेवंविधमन्यदप्यावश्यकम् । ततः प्रशस्तनिमित्त-योगादीन् प्राप्य प्रव्रजेद् गुरुसमीपे । प्रतिक्रियं गुरुमन्त्रेण गुरुणा समभिवासितो ऽत्युत्साहेनानन्देन च विशुद्ध्यमानचित्त उत्तरोत्तरवर्द्धमानशुभभावोल्लासो लोकोत्तरसम्यग्भाववन्दनादि विशुद्धिपुरस्सरं महता प्रमोदेन लोकधर्मेभ्यः सबलेभ्यो लोकोत्तरधर्मगमनेन प्रव्रजेत्, प्रकर्षेण व्रजेदित्यर्थः । * सहेतुकानीमानि विधानानि । तत्र सामाचार्याद्यनभिज्ञस्य