________________
१४४
पञ्चसूत्रोपनिषद् सैषा क्रूरतैव परमार्थतस्तेषाम्प्रति । अत एवैष धर्मः सतां यत् प्रत्युपकर्त्तव्यौ मातापितरौ । __ज्ञातमत्र त्रिलोकनाथो भगवान् महावीरः । विज्ञातमनेनातिशयज्ञानेन यथा मत्प्रव्रज्यातो मातापितॄणां दारुणो भविष्यत्यकुशलानुबन्धी शोकः । अतो गर्भगतेनैवाभिग्रहं गृहीत्वा कृतस्तच्छोकनिरोधः । स चाभिग्रह, एवम् - न पित्रो र्जीवतोः प्रव्रजिष्याम्यहम् - इति । एतत्त्वत्रावधेयम् - अवधिज्ञानमता भगवता विज्ञातम्, यथा - भवान्तरे सद्गतिः शुभपरम्परा चैवमेव पित्रोः स्यात्, यदि तयोः शोकनिमित्तं न दीयते । अन्यथा त्वशुभानुबन्धिशोकविह्वलानामकाल-मृत्युयोगादशुभपरम्परैव स्याद् भवान्तरे । एवञ्चानेकभवान् यावद् दुर्लभा स्यात्तयोः सद्गतिः । ततश्च न तयोः प्रत्युपकारः कृतस्स्यात् - इति । एवं यदि भगवताऽपि पित्रोर्भावदया. विचिन्तिता, ततोऽपरैः कथं न चिन्तयितव्या सा ? .
अत्राप्येतदवधेयम्, यच्चरमतीर्थकृताऽवधिज्ञानेन तथाविधां मात्रादिस्थितिं दृष्ट्वा तादृशमुचितमाचरितम् । भिन्नप्रकारां च तां दृष्ट्वा श्रीऋषभदेवेन भिन्नविधमाचरितमुचितम् । अस्माकं तु भगवदाज्ञाया दीक्षाग्रहणविधिरूपाया अनुपालनमेवोचितम् । एवमेव मात्रादिं प्रति कृतज्ञत्वनिर्वाहः, तत्प्रत्युपकारसम्भवात् ।
(१३) प्रव्रज्याविधिः
सूत्र : एवमपरोवतावं सव्वहा, (१) सुगुरुसमीपे (२) पइत्ता भगवंते वीअरागे (३) साह अ (४) तोसिऊण विहवोचिअं