________________
पञ्चसूत्रोपनिषद्
अतो परमार्थदृशा शुभानुबन्धजनकं सम्यक्त्वाद्यवस्थापरम्परास्रष्टृ च शुभं फलमेव मुख्यम् । यत्तु वर्तमानकाले शुभतया प्रतिभासमानमपि परिणामेऽशुभं फलं ददाति, तच्चेष्टितं प्रत्यपायावहं त्याज्यं च । धीरा निकटकाले मुक्तिगामिनो हि पुरुषाः परमार्थतो मुख्यं फलं पश्यन्ति । दीर्घदृशाऽऽलोच्य हितप्रवृत्तिर्हि विचारकत्वसाधिका । एवं हि निकटीभवेन्मुक्तिः । भावनीयान्यत्र ऋषभकुमार वज्रस्वामि कलिकालसर्वज्ञहेमचन्द्रसूरि - अवन्तिसुकुमालवृत्तान्तानि । दृश्यन्तेऽद्यापि पुत्रदीक्षानन्तरं पित्रादेरपि दीक्षा ।
-
१४३
(१२) दुष्प्रतिकारेषूपकारः
सूत्र : स ते सम्मत्ताइओसहसंपाडणेण जीवाविज्जा अच्चंतिअं, अमरणावंझबीअजोगेणं । संभवाओ सुपुरिसोचि अमेअ । दुष्पडिआराणि अ अम्मापिईणि । एस धम्मो सयाणं । भगवं इत्थ नायं परिहरमाणे अकुसलाणुबंधि अम्मापिइसोगंति ।
एवं विमुच्य मातापितरौ शुक्लपाक्षिकः पुरुषः प्रयच्छति ताभ्यां सम्यक्त्वाद्यौषधम् । एवञ्च वितरत्यसौ शश्वज्जीवनम् । मृत्युञ्जयस्यामोघोपायभूतत्वात्सम्यक्त्वादेः । अतो हि चरणावाप्तिक्रमेण कृत्स्नकर्मसङ्क्षयः । ततश्च परमसौख्यसंवित्तिलक्षणो मोक्षः । न ह्येतत्कल्याणं सम्भवति पित्रोस्तदत्यागे । अतो युक्तः सतां तत्परिहारः, दुष्प्रतिकारत्वान्मातापित्रोः, एवमेव तत्प्रतिकृतिसम्भवाच्च । अतो न वैफल्यं नेयस्ताभ्यां धर्मौषधदापनस्यैषोऽवसरः । तद्वैफल्यं च स्वयं प्रव्रज्यानुपादानात् । एवञ्च मात्रादीनां धर्मवञ्चना । ततोऽपि तेषां दारुणं दुर्गतिदुःखम्,