________________
१४२
पञ्चसूत्रोपनिषद् मिच्छाभावणाओ । तत्तफलमित्थ पहाणं । परमत्थओ धीरा एसदंसिणो आसन्नभव्वा । ___ एवं विचार्य मुमुक्षुर्मातृपितृजीवननिर्वाहस्य यथाशक्त्या चिन्तां कुर्यात् । एवं तौ स्वस्थीकृत्य सम्यक्त्वादिप्रापणार्थं रत्नत्रयावाप्तिहेतोस्त्यजेत् । गृह्णीयाच्चारित्रम् । ततः सद्गुरुसमुपासनसम्प्राप्तशास्त्रज्ञानः पुत्रो वितरेत्तयोः सम्यक्त्वाद्यौषधम् । स्वयमपि तपःसंयमस्वाध्यायाऽऽराधनयाऽऽत्मपोषकज्ञानाद्यात्मक भावप्राणनिर्वाहं कुर्यात् । एतदर्थं हि तस्य प्रव्रज्याग्रहणम् !
अत एतदाशयेन पितरौ त्यजन् साधुः - सिद्धिगोचर प्रयत्नशीलः । इतरस्त्वसाधुः - अधर्मशीलः |न हि स्वधर्मशीलतामन्तरेण जातु स्वहितसाधकत्वं परहितप्रयोजकत्वं वा सम्भवेत् । दृश्यन्तेऽद्यापि तथाविधा मुमुक्षवः, ये मात्राद्यनुरागवशेन न निष्क्रान्ताः | न तैः स्वयं चारित्रं गृहीतम् | नापि मात्रादिका अपि विशिष्टं धर्मपदं प्रापिताः, अतस्तान् परिहृत्य चारित्रग्रहणमेव हितावहम् ।
न च चारित्रलक्षणपुनितवस्तुसम्प्राप्त्यर्थं निष्ठुरतया मात्रादित्यागोऽनुचित इति वाच्यम्, उक्तविधौ पारुष्याभावात् । प्रोक्तनीत्याऽत्यागरूपत्वाच्च त्यागस्य स एष तत्त्वभावनानुभावः विपर्यासे तु भवेत्तत्त्यागः, मिथ्याभावनात् । न हि स्वस्यैव गृहवासभावे मात्रादेःसम्यक्त्वादिप्रापणं सम्भवि । ततश्चं नियतं मात्रादेर्दुर्गतिबम्भ्रमणम् । तदेतदेव पित्रोनिष्ठुरतया त्यजनम् । न ह्यवाप्तसम्यक्त्वाः कस्यचित्प्रव्रज्यायामन्तरायतांयन्तीति विभावनीयम् । प्रव्रज्यान्तरायकृत्त्वे तु तयोर्भवेद् भवभ्रमणम् ।