________________
पञ्चसूत्रोपनिषद्
१४१ एवं ये शुक्लपाक्षिकाः - उत्कर्षतोऽप्यपार्धपुद्गल-परावर्त्तमात्रकालीनसंसाराः क्रियारुचयो जीवाः, ते संसाराटवीपतिता मात्रादिसमेता जीवा धर्मानुरागमङ्गीकृत्य विहरेयुः । ते च निर्मलदृक्तया पश्यन्ति वस्तुतत्त्वम् । पर्यालोचयति परिणामम् । चिन्तयन्ति यथा - संसारमहारण्यपतितौ मम पितरौ कर्मरोगेण ग्लानीभूतौ । स च रोगो नियोगेन मारकः । न च सकृदेवापि तु प्रतिभवमनेन मरणभयम् । न चायं रोगो धर्मबीजादिलक्षणमौषधमन्तरेण शक्योपशमः । सम्भवति च कर्मरोगशमनसम्यक्त्वा-द्यौषधाऽऽनयनम् । ततश्च नीरुग्भावसम्पादनेन भावजीवनाधिगमस्स्यात् । स्याच्च भवाटवीविलङ्घनम् - इति । __ स्यादेतत्, यावज्जीवनं प्रतिपाल्य पितरौ ततश्चारित्रं गृह्णीयादिति चेत् ? न, तन्मृत्युप्रतीक्षायाश्चारित्रपरिणामोच्छेदकत्वात्, मैत्रीभावनिर्नाशकत्वात् । मैत्रीभावस्तु चारित्रगुणमूलमिति विभावनीयम् । एवं जीवतोरेव पित्रोः प्रव्रजितव्यम्, न तु विलम्बो विधेयः । अल्पं ह्यायुः तदपि सोपक्रमम् । अत एवाऽऽगमः - कुसग्गे जह ओसबिंदुए थोवं चिट्ठइ लंबमाणए । एवं मणुआण जीवियं समयं गोयम ! मा पमायए - इति (उत्तराध्ययने १० -) अतः शीघ्रमेव ग्राह्यं चारित्रम् ।
सूत्र : तहा संठविअ संठविअ इहलोगचिंताए, तेसिं सम्मत्ताइओसहनिमित्तं, विसिठ्ठगुरूमाइभावेण सवित्तिनिमित्तं च, किच्चकरणेण चयमाणे संजमपडिवतीए, साहू सिद्धीए । "एस चाए अचाए' तत्तभावणाओ । 'अचाए चेव चाए