________________
१४७
पञ्चसूत्रोपनिषद् गृहिजीवनकल्पना मुनिवेषमात्रदर्शनेन । एवं साभिप्रायाणि प्रव्रज्याविधौ प्रोक्तान्यावश्यकानि ।
अथ दीक्षाग्रहणे प्रशस्तनिमित्त-तिथि-वासर-नक्षत्र-करणयोग-लग्नादयो द्रष्टव्याः । तेषां शुभभावोल्लासप्रयोजकत्वात् । ततश्च साफल्यसंयोगः । अशुभनिमित्तेष्वारब्धमपि न निष्ठां याति कार्यमिति दृश्यते लोकेऽपि । अतः प्रशस्तनिमित्तप्रतिपत्तिपुरस्सरं प्रव्रज्याविधिरनुसतव्यः ।
गुरुहस्तेन ह्यहं दीक्षितोऽस्मीति संवेदनेन प्रवीभावयोगः । अतो विध्यादृतिाप्या । अतः खल्वाज्ञाप्रतिबद्धता । अर्हदादिसाक्ष्यनुभावेन प्रतिज्ञानिर्वाहसूपयुक्तता । किञ्च कल्याणगुरुहस्तदीक्षितत्वे पावित्र्ययोगः प्रवचनप्रभावनासंयोगश्च । नैते लाभा 'संन्यस्त मित्येतावदुच्चारमात्रप्राप्येति विभावनीयम् । __ मन्त्रिता वासाः पतन्ति मन्मस्तके - इत्येतदवगमेन विशेषत उज्ज्वलः सोत्साहश्च स्याच्चित्ताध्यवसायः । अकल्पनीयश्चानुभावो मन्त्राणाम् । तथा गुरुणाऽभिमन्त्रिता वासा इत्यवगम उल्लासयति गुरुगोचरं गौरवभावम् ।
प्रव्रज्याप्रतिपत्तिकालीनो हि हृदयभावोल्लासातिशयः समग्रेऽपि संयमजीवने प्रभवति । ततश्च चरितार्थ्यते - सिंहोत्थितः सिंहविहारचारी - इति ।
प्रव्रज्याप्रतिपत्तिर्नाम सम्यग् लौकिकसम्बन्धकर्तव्यप्रवृत्तिव्यवहारादिलोकधर्मपरिहारपुरस्सरं प्रव्रजेल्लोकोत्तरधर्मे । यावज्जीवमङ्गीकुर्याल्लोकोत्तरं धर्ममिति भावः । व्रजेदौदयिकाद् भावात् क्षायोपशमिके भावे । सन्ततमपि भवेद् गुरुप्रतिबद्धः |