________________
१३८
पञ्चसूत्रोपनिषद्
खु हिअं सव्वसत्ताणं । तहा तहेअं संपाडिज्जा । सव्वहा अपडिवज्जमाणे चइज्जा ते अट्ठाणगगिलाणोसहत्थचागगनाएणं ।
यदि तु मोहवशात्पितरौ नानुज्ञापयतः प्रव्रज्याग्रहणार्थम्, तदा हृदयेन निर्माय एव मुमुक्षुरनुज्ञाधिगमार्थं मायाप्रयोगं कुर्यात् । कथयेन्मम दुःस्वप्नमाऽऽगतम् । ततश्च तेनाल्पायुः पुत्रस्यानुमीयानुज्ञापयेतां पितरौ । न च कथं कल्याणार्थी मायां कुर्यादिति वाच्यम्, यत उक्तम् - निर्माय एव भावेन, मायावाँस्तु भवेत् क्वचित् । पश्येत् स्वपरयोर्यत्र सानुबन्धहितोदयम् इति । एवञ्च धर्माराधनमेव हितं सर्वसत्त्वानामिति । परमार्थतस्तु मायैवैषा न भवतीति विभावनीयम् ।
-
यथा हि प्राज्ञो पितरावन्तरुल्लसन्तमपि स्नेहसागरकल्लोलं न व्यक्तीकुर्वन्ति शिशोः पुरस्तात् । आसेते च गभीरमुद्रौ । तथा चान्तर्बहिरसदृशवृत्तिभावेऽपि न सा माया दोषरूपा, सुतहितार्थत्वात् । यथा च सुदीर्घं चिकित्साकालं विदन्नपि वैद्यः प्रतिपादयति रुग्णाय शीघ्रमेव नीरुग् भविष्यसि - इति । यतो रुग्णमनःप्रसन्नभाव उल्लसेत्, यतेत चौषधपथ्यादावेषः, प्राप्नुयाच्चाऽऽरोग्यम् । एषोऽपि न दोषः, रुग्णहितार्थत्वात् एवं प्रकृतेऽपि द्रष्टव्यम् ।
मोहप्रचुरसम्बन्धनिर्वाहेणैव व्यतीता अनन्ता भवा भवाटव्याम् । साम्प्रतं तु परित्यज्य तत्सम्बन्धं रत्नत्रयीसाधनावसरः, यतो भवभ्रान्तिपर्यवसानं स्यात् । अतस्तदर्थं दुःस्वप्नादिकथनलक्षणा मायाऽपि न्याय्या । आदिना गणकमुखेनात्मनो भाव्यनिष्टकथनपरिग्रहः ।
।