________________
१३७
पञ्चसूत्रोपनिषद् वृद्ध्यादिना नियतो लाभ उपायः । पटहवादनपूर्वकं घोषितं कृष्णेन, यथा-यद्येवंविधो महर्द्धिकोऽपि थावच्चापुत्रः प्रव्रजति, तदा यः कोऽपीच्छति प्रव्रजितुम्, स प्रव्रजेत् । तत्कुटुम्बनिर्वाहादिचिन्तां कृष्णः करिष्यति - इति ।। . न चान्यसहायेन दीक्षाग्रहणमनुचितमिति वाच्यम्, अनिवार्यसंयोगयोगे गृहादिकार्येष्वपि तद्ग्रहणस्य सार्वजनिकत्वात् । न च मुमुक्षुणा स्वजनार्थं धनोपार्जनमनुचितम्, तत्त्वादेवेति वाच्यम्, संसारत्यागासमर्थयोः सत्योः पित्रोनिर्वाहाभावे दुर्ध्यानसम्भवात्, लोकनिन्दाप्रसक्तेश्च तच्चिन्ताकरणस्याऽऽवश्यकत्वात् । नैतत्पापम्, अपि तु मातापितृसेवा कृतज्ञतागुणः कारुण्यं च । __ कृतज्ञता हि मोक्षमार्गोपयोगी प्रथमो गुणः । लिङ्गमेंतन्मोक्षसाधकयोग्यतायाः । अत एव लोके करुणा प्रधाना धर्ममातेत्युदितम् । तत्प्रसूतत्वाद्धर्मस्य । अपि च शासनोन्नतिप्रयोजिका करुणा । तीर्थकरा अपि प्रव्रज्याग्रहणात् प्राक् प्रवर्त्तन्ते सांवत्सरिकदाने । यदि चापरेष्वप्यनुकम्पा विधेया, तदा मातापितृगोचरे तु किं वाच्यम् ? वस्तुतस्त्वनुकम्पाऽप्येषा न भवति, अपि तु कृतज्ञता भक्तिश्च । ___ एवं मातापितृनिर्वाहप्रबन्धं विधाय, तदनुज्ञां प्राप्योरीकुर्याच्चारित्रधर्मम् ।
(९) अपवादमार्गः
सूत्र : अण्णहा अणुवहे चेव उवहिजुत्ते सिआ | धम्माराहणं