________________
१३६
पञ्चसूत्रोपनिषद् र्भवतोः सद्गुरोश्चानुभावेन । नियोगत भविष्यति मत्समीष्टं भवाभावलक्षणम् । ततोऽप्यवश्यमनन्तसंसारपरिभ्रमणपर्यवसानम् ।
सूत्र : एवं सेसेवि बोहिज्जा । तओ सममेएहिं सेविज्ज धम्म करिज्जोचिअकरणिज्जं निरासंसो उ सव्वदा । एअं परममुणिसासणं ।
एवं पितरौ भार्यादिस्वजनाँश्च प्रतिबोधयेत्, राजपुत्रवज्रबाहुवत् । ततश्च तैः सहाऽऽराधयेच्चारित्रधर्मम् । तदाराधनाऽपि कथमित्याह - निराशंसभावेन । विमुच्य ऋद्ध्यादिगौरवं परिहृत्य विभवादिलोभं सन्त्यज्य च सन्मानाद्याकाङ्क्षां कुर्यादुचितं कर्त्तव्यम् । भावनीयं निराशंसभावोपलब्धये शोफपोषाद्यौपम्यम्, भवितव्यमात्ममात्रतृप्तेन, यथाऽऽह - यथा शोकस्य पुष्टत्वं, यथा वा वध्यमण्डनम् । तथा जानन् भवोन्माद - मात्मतृप्तो भवेन्मुनिः - इति (ज्ञानसारे १३ - ६) |
(८) अप्रतिबोधे कर्त्तव्यम
सूत्र : अबुज्झमाणेसु अं कम्मपरिणईए, विहिज्जा जहासत्ति तदुवकरणं आओवायसुद्धं समईए | कयण्णुआ खु एसा, करुणा य, धम्मप्पहाणजणणी जणम्मि । तओ अणुण्णाए पडिवज्जिज्ज धम्म ।
अथ तथाविधकर्मपरिणत्या यदि मातापितरौ न प्रतिबुध्येते, तदा स्वशक्त्या तज्जीवननिर्वाहचिन्तां कुर्यात् । स्वमत्या शुद्धाऽऽयोपायोपार्जनं विदध्यात् । तत्रापरेभ्य उत्पाद्यमानमायः ।