________________
१३५
पञ्चसूत्रोपनिषद् रोगः । अपगच्छति विभव आगच्छति च दारिद्र्यम् । विलयमेति स्नेह उद्भवति च विरोधभावः ।
किञ्च कलहेनेादिना चोदेति संसारे दुःखम् । अपि च वध्यतया राज्ञाऽऽदिष्टो जन इत्वरकालीनमनोज्ञविषयसंयोगेऽपि नेति रतिम्, एवं गृहीतजन्मतया वध्यतयाऽऽदिष्टा एव सर्वेऽपि संसारिणो जीवाः । किञ्च वध्यो वेत्ति मृत्युदिनम्, न तु संसारिणो जीवाः । तदत्र संसारे किन्नु सुखम् ? सर्वस्योपरि लम्बमानैवाऽऽस्ते मृत्युतरवारिः सदाऽप्यत्र । तथा संसारे सदप्यसत्, पर्यायात् । न हि पर्यायपरावर्ते विलम्बो भवत्यत्र । उक्तञ्च - आयुर्वायुतरत्तरङ्गतरलं लग्नापदः सम्पदः, सर्वेऽपीन्द्रियगोचराश्च चटुलाः सन्ध्याभ्ररागादिवत् । मित्रस्त्रीस्वजनादिसङ्गमसुखं स्वप्नेन्द्रजालोपमं, तत् किं वस्तु भवे भवेदिह मुदामालम्बनं यत् सताम् ? - इति (शान्तसुधारसे १-) अतो हे पितरौ ! नात्र कुत्रापि प्रतिबन्धः श्रेयान् ।
(७) पितृप्रार्थना सूत्र : करेह मे अणुग्गहं । उज्जमह एअं वुच्छिंदित्तए | अहंपि तुम्हाणुमुइए साहेमि एअं निविण्णो जम्ममरणेहिं । समिज्झइ अ मे समीहिअं गुरुप्पभावेणं । __ हे पुत्रवत्सल ! तात ! कुरुत ममोपर्यनुग्रहम् । उद्यततमेतत्संसारोच्छित्त्यै । अहमपि युष्माकमनुमत्या साधयामि संसारोच्छेदम् । उद्विग्नोऽस्म्यहं जरामरणादिदुःखमयात्संसारात् । स्वीकरोम्यधुना सद्गुरुचरणशरणम् । भवतु ममाभिमतसिद्धि