________________
पञ्चसूत्रोपनिषद्
१३९ ननु चैवं सत्यबाधा स्यादिति चेत् ? न स्वपरयोः परिणामहितस्यैव सत्यत्वात्, सद्भ्यो हितं सत्यमित्युक्तेः । यदि त्वेवमपि नानुज्ञापयतः पितरौ, तदाऽस्थानग्लानौषधनीत्या तौ परिहृत्याङ्गीकुर्याच्चारित्रम् । सा च नीतिरेवम् -
(१०)
सूत्र : से जहानामए केइ पुरिसे कहंचि कंतारगए अम्मापिइसमेए, तप्पडिबद्धे वच्चिज्जा । तेसिं तत्थ नियमघाई पुरिसमित्तासज्झे संभवओसहे महायंके सिआ | तत्थ से पुरिसे तप्पडिबंधाओ एवमालोचिअ 'न भवंति एए नियमओ ओसहमंतरेण, ओसहभावे अ संसओ, कालसहाणि अ एआणि' तहा संठविअ संठविअ, तदोसहनिमितं सवित्तिनिमित्तं च चयमाणे साहू | एस चाए अचाए चेव चाए । फलमित्थ पहाणं बुहाणं। धीरा एअदंसिणो । स ते ओसहसंपायणेण जीवाविज्जा। संभवाओ पुरिसोचिअमेअं । ___ अस्थाने - वनादौ, ग्लानः - सञ्जातरोगप्रयुक्तग्लानिभावः, तदर्थं ग्रामादेरौषधमानेतुं तस्य त्यागः - परिहारः, यथा कश्चित् पुरुषः याति स्माटव्यां मातृपितृसमेतः । अटवी ह्यस्थानम्, यत्र न प्राप्यत औषधादिकम्, तत्र तन्मातृपित्रादेः सञ्जातः कश्चिद्रोगः । स चातिदारुणतया सम्भवति प्राणघातकः । किञ्चाशक्ततयाऽन्यत्र गन्तुमशक्तौ पितरौ । किञ्चित्कालं यावज्जीवितुं तु समर्थौ । नान्यो विद्यते रोगोपशमोपायः । आवश्यकं वर्त्तते रोगोपशमनौषधम् |तच्च ग्राम एव प्राप्यम् ।