________________
१३२
पञ्चसूत्रोपनिषद् बाह्यतपाषट्कं प्रायश्चित्ताद्याभ्यन्तरतपाषट्कं च विधत्ते विशिष्टां कर्मनिर्जराम् । तपो ह्यनुकूलपवनस्थानीयं करोति भवोत्तारोद्देश्यां गतिं वेगवतीम् । (५) दुर्लभः सिद्धिसाधकः क्षणः सिद्धिस्वरूपं च
सूत्र : खणे दुल्लहे सव्वकज्जोवमाई, सिद्धिसाहगधम्मसाहगत्तेण । उवादेआ य एसा जीवाणं । जं न ईमीए जम्मो, न जरा, न मरणं, न इट्टवियोगो, नाणिट्ठसंपओगो, न खुहा, न पिवासा, न अण्णो कोइ दोसो | सव्वहा अपरतंतं जीवावत्थाणं असुभरागाइरहिअं संतं सिवं अव्वाबाहति । ___ भवसमुद्रतरणात्मके निजकार्य एव नियोक्तव्यं मानवजीवनम्, दुर्लभत्वादेतदवसरस्य । निरुपमः खल्वयमवसरः, अतिशायी च । अत्रैव सम्भवति मोक्षमार्गस्य सम्यग्दर्शनज्ञान-चारित्ररूपस्याऽऽराधना । अन्येषु तु भवेषु विषोढं बहु कायकष्टम्, विहितोऽनल्पप्रयत्नः प्रयोजनान्तरेषु । न च किमपि सिद्धमात्मकाया । अद्यापि न निष्ठितं संसरणम् । अतः सिद्धिरेव प्राप्तव्या, जन्मजरामरणादिपीडाविरहितत्वात्सिद्धेः ।
ननु च भोज्यादिविरहात्किन्नाम सिद्धौ सौख्यमिति चेत्? मरणाद्यपायविगमेनाविभूतस्वभावभूतमिति गृहाण । तथाहि गणकाभिहितं मृत्युं श्रुत्वाऽपि कम्पते जनः । जन्मदुःखं स्मारयति नरकयातनाम् । इष्टवियोगो दन्दहति हृदयम् । अनिष्टसंयोगो दारयति मनः । निपीडयन्ति क्षुधापिपासादयः पीडाः । पराभूयते पारतन्त्र्यतः । उद्विज्यते रोगजरादिकृतपराभवैः । अत