________________
१३१
पञ्चसूत्रोपनिषद् भवत्यसच्चेष्टा । अतश्चाऽऽस्वकुशलानुबन्धसामान्यम् । न ह्यत्रोदेति शुद्धा बुद्धिः | नावाप्यते विनयविधाविसरः । दुष्प्रापमत्र मनःप्रभृतिपावित्र्यम् । नापि तत्र दुःखक्षयोपायाऽऽदृतिः । अत एवैते भवा अयोग्याः शुद्धधर्माऽऽराधनार्थम् । योग्यवस्तु मनुजभव एव ।
मनुजभवो हि संसारावारपारपारगमनैकयानपात्रम् । देवानामपि मुमुक्षूणामावश्यको मनुजभवाधिगमः । धर्मास्त्रेण कर्मसङ्ग्रामे कृत्स्नकर्मक्षयसम्भवो मनुजभव एव । अत एव धर्मः परमकर्तव्यो मनुजानाम् । एतदाराधनायामेव मनुजजीवनविनियोगो न्यायाः । संसारसागरे पोतभूतमिदं मनुजजीवनम् । स्थगितव्यान्यत्र हिंसाद्याश्रवद्वाराण्यहिंसादिसंवरैः । अन्यथा तु कर्मजलपूरितस्य निमज्जनमेवैतत्पोतस्य । तरणार्थमिहायं भवः । नैनं निमज्जननिबन्धनं कर्तुमुचितम् ।।
तथाऽत्र पोते ज्ञानकर्णधार आवश्यकः । यथैव कर्णधारोऽभीक्ष्णमुपयोगेन नयति पोतं सन्मार्गेण, तथा पुनः पुनः शुभोपयोगेन ज्ञानमपि नयति जीवं भवोत्तारमार्गेण । ज्ञानोपयोगविरहे तु संवरप्रवृत्तस्याप्यज्ञानाऽऽलस्यप्रमादादिनोन्मार्गगमनं सम्भवेत् । सम्भवेच्च रागद्वेषशैलाऽऽस्फालनेन शतधा विशकलीभावो गुणस्थानकस्य । अत एव सूक्तं परमर्षिभिः उपयोगे धर्मः, न च प्रतिज्ञामात्रेण, अपि तु तत्पालनावधानेनः सम्भवति धर्मः - इति । . - तथा तपोरूपोऽनुकूलः पवनोऽप्यावश्यकः । अन्यथा पोतस्य विसंस्थुलभावयोगात्, लक्ष्यं प्रति गत्यभावाच्च । अनशनादि