________________
पञ्चसूत्रोपनिषद्
१३३
एवैतत्सर्वशून्ये मोक्षे निरुपमं सुखम् । नात्र शरीरकारावास - निरोधलक्षणो जन्म । अत एव न प्राणनाशसङ्काशं मरणम्। न वयोहानिरूपा जरा । नेष्टवियोगः शश्वत्सौख्यसम्पत्तेः । अपि चेच्छाया एवाभावः, अत इष्टस्याप्यभावः, ततश्च प्रकृत्या परमानन्दप्रसूतिः, अपेक्षाया एव दुःखरूपत्वात्, वक्ष्यते च पुरस्तात् अविक्खा अणाणंदेइति ( पञ्चसूत्रके पञ्चमसूत्रे । किञ्च शरीरेन्द्रियमनसामप्यभावः । न तत्र क्षुद्विडम्बना, नापि पिपासापीडा, न व्याध्यपयशोऽसातविष्ट्यादिकम् । न हि शरीराभावे भवति व्याधिः, नापि निन्दकादिविरहे निन्दाद्यपि |
-
"
न चैवं सर्वशून्यत्वमेव मुक्ताविति वाच्यम्, निरूपमसुखसम्भूति रूपत्वान्मुक्तेः, तदाहः - अपरायत्तमौत्सुक्यरहितं निष्प्रतिक्रियम् । सुखं स्वाभाविकं तत्र नित्यं भयविवर्जितम् ।। परमानन्दरूपं तद् गीयतेऽन्यैः - र्विचक्षणैः । इत्थं सकलकल्याणरूपत्वात्साम्प्रतं ह्यदः ।। संवेद्यं योगिनामेतदन्येषां श्रुतिगोचरः । उपमाभावतो सम्यगभिधातुं न शक्यते इति (अष्टकप्रकरणे)
-
अधिगम्यत एतदवस्थाविशेषोऽशुभरागाद्यभावात् रागादिभिरेव क्रियते जीवो विषयपरतन्त्रः । एभिरेव च पीड्यत एषः । सिद्धभावे तु वीतरागतानुभावात् परमं स्वातन्त्रयम् । उपशमश्च परमः । न च शक्तिरूपेणापि तत्र कषायाः, तद्विरहात । अतः शान्तमिदं पदं शक्तितोऽपि, आस्तां व्यक्तित इति । एव सर्वोपद्रवाणां शश्वदन्तभावेन नित्यमत्र शिवम् । किञ्च नात्र गमनागमनप्रयुक्तमाकुलत्वम्, सर्वथाप्यक्रियत्वात्, अत एवात्राऽव्याबाधस्थितिः । क्रियैवानेकबाधायोनिः तद्विरहे कुर्ताबाधाया गन्धोऽपीति ।