________________
१२२
पञ्चसूत्रोपनिषद् तिर्यग्भवेऽप्यवाप्तो धर्मावसरः । न तत्र दारुणं दुखं विषहमानेनाप्यवाप्ता जीवेन समता । केवलं क्रोधाऽऽध्मातस्सन् गतो दारुणां नरकगतिम् । अत्र हि मनुजभवे समतापरिपाकावसरः । अत्र हि समाध्यवकाशः । अत्र सहिष्णुभावसम्भवः । -
किञ्च प्रागसंयमकालः, साम्प्रतं तु संयमावसरः । पूर्व रागानुरक्तत्वकालः, अधुना तु विरागपदवीप्रसरणावसरः । अपि च प्राङ् मनोवाक्कायदण्डकालः, इदानीं तु मनोवाक्कायगुप्तेरवसरः | व्याघ्रादिभवेषु विधृतानि मायादिशल्यानि, साम्प्रतं तु तत्समुद्धारावसरः । अनार्यत्वाध्वनि विहितानि बहूनि निदानानि, नाधुना तत्त्वं निषेव्यम् । जिनधर्मविरहकाले निषेवितः कुमतः, नेदानीं तन्निषेवणं शोभास्पदतामृच्छति ।
प्राप्तकाल इदानीमृद्धिरससातगौरवनिरोधः । एतत्रितयगोचरसक्तिर्हि शिलाजतुसङ्काशा । यथा हि पिपासुर्वानरः शिलाजतु जलं मत्वा तत्पानाय यतते । श्लिष्यते तत्र तन्मुखम् । तन्मोचयितुं न्यस्यति तत्र हस्म् । सोऽपि तत्र श्लिष्यते । क्रमेण कृत्स्नः स्वयमपि तत्रैव श्लेषबन्धनेन बद्धस्तृषितः क्षुधितश्च सन् म्रियते । एवमेवर्द्धरससातगौरवश्लिष्टा अपि पुनः पुनरनुभवन्ति मरणादिदुःखसन्दोहम् । अपि चायं श्लेषः सुलभो देवादिभवेषु । इह तु भवे तन्मोक्षसाधनसौलभ्यम् । अत परिभावनीयम् - को मम कालः ? किञ्चास्योचितम् ।
किञ्च प्राक्काले श्रीमतः साम्प्रतं दारिद्र्योपहतस्य तुच्छभोगे कदाचिदपि नानुरज्यते चेतः | मन्यते च तेनासावात्मविडम्बनाम् |