________________
पञ्चसूत्रोपनिषद्
एवमुपभुक्तदिव्यकामस्य मानुषकामभोगोऽपि विडम्बनामात्रपर्यवसायीति सूक्ष्ममीक्षणीयम् । अत एव पारमर्षम् - जहा कुसग्गे उद़गं समुद्देण समं मिणे । एवं माणुस्सगा कामा देवकामाण अंतिए - इति (उत्तराध्ययने.......) न ह्येतत्तुच्छभोगेन तृप्तिरपि सम्भविनी जातु, अपि तु तत्तृष्णापरिहारेणैव तत्परिहारप्रत्यलत्वप्रदोऽवाप्तोऽयमवसर इति भावनीयम् ।
,
१२३
न ह्येष विकथाकालः, अपि तु सत्कथावसरः । नैष दुर्ध्यानावा, अपि तु शुभध्यानसमयः । अतः सफलीकर्त्तव्य एष समयः । किञ्च
सूत्र : असारा विसया, निअमगामिणो, विरसावसाणा । भीसणो मच्चू, सव्वाभावकारो, अविन्नायागमणो, अणिवारणिज्जो, पुणो पुणोऽणुबंधी ।
यद्यप्यापातरमणीयाः स्पर्शादयो विषयाः, तथाप्यसाराः, विनश्वरत्वात्, दारुणोदयत्वाच्च, अभिहितं च- बडिशामिषवत्तुच्छे कुसुखे दारुणोदये । सत्कास्त्यजन्ति सच्चेष्टां धिगहो दारुणं तमः इति ( योगदृष्टिसमुच्चये.........) । कथन्नामानन्तसुखसन्दोहहेतुरयं मानवदेहस्तुच्छसुखार्थं व्यर्थतां नेतुमुचितः ?
-
किञ्चावश्यम्भावी भयङ्करश्च मृत्युः । एष एव जनयत्यगण्यानि भयानि । करोत्ययं सर्ववस्तूनामभावम् । वियोजयत्यात्मानं सर्ववस्तुभ्य इत्यर्थः । न हि मरणानन्तरं धनादिकं किमप्यन्वेति जीवम् । अपास्यते तदाश्रयं जीवस्वामित्वं मरणेन । अविज्ञाताऽऽगमश्च मृत्युः । नैष प्रतीक्षते कालम् । न पश्यत्यकालम् । न च चक्रीन्द्रोपेन्द्रतीर्थकृदादयोऽपिं