________________
पञ्चसूत्रोपनिषद्
१२१ उक्तविपर्यासे तु बाढं कालानुचितानुसेवनमेवेति निपुणं निभालनीयम् ।
न हि सञ्जानिराकरणार्थमवाप्तेऽत्र भवे सज्ञापरिपोषानुगुणा प्रवृत्तिः सङ्गतिमङ्गति । अतो निराकर्त्तव्या आहारादिसञ्ज्ञाः | एतदर्थं ह्ययं कालः । देवकालेऽवाप्ताः परमर्द्धयः । अन्यपरिश्रममन्तरेण दिव्योद्गारमात्रोपशाम्या तत्र क्षुत् । उत्कृष्टविषयसौख्यसाधनोपलब्धिः । अनेककोट्यप्सरउपभोगः । यदपि तत्रावाप्तम्, तत्सर्वमपि सञ्जापुष्टिप्रदमेव । न हि तत्र सञ्ज्ञाविषधरीविषस्य लेशतोऽपि बभूव हानिः । नापि तद्धानिप्रयोजकसामर्थ्यमपि बभूव तत्र । अत्र तु तथाविधसामर्थ्यानुगुण्यमपि विद्यते । न ह्यत्र दिव्यस्वादुभोज्यानि, नापि महाविभवाः, किन्नामात्र भोगाभिलाषिणामपि भोक्तव्यं वस्तु ? प्रत्युत सम्भवन्त्यत्र तपस्त्यागप्रवृत्तयः । अत उत्तमोऽयमवसरः ।
किञ्च तिर्यग्भवकालोऽतिदारुणः, यथोक्तम् - गिम्हायवसंतत्तो रण्णे छुहिओ पिवासिओ बहुसो । संपत्तो तिरयभवे मरणदुहं बहु विसूरंतो || वासासु रण्णमज्झे गिरिनिज्झरणदगेहिं वज्झंतो । सीयानिलडज्झविओ मओऽसि तिरियत्तणे बहुसा ।। एवं तिरियभवेसु कीसंतो दुक्खसयसहस्सेहिं । वसिओ अणंतखुत्तो जीवो भीसणभवारण्णे - इति (वैराग्यशतके) । अपि च - बन्धोऽनिशं वाहनताडनानि, क्षुत्तृहिमात्युष्णभयार्दितानि । निजान्यजातीयभयापमृत्यु-दुःखानि तिर्यक्ष्विति दुःषहानि - इति । (अध्यात्मकल्पद्रुमे........) न हि तथाविधे