________________
१२०
पञ्चसूत्रोपनिषद् समभावाभ्यासः संवेगवैराग्यवृद्धिः सत्तत्त्वविमर्शः सत्पुरुषार्थाभिलाषोऽन्तर्मुखभावश्च । सैव परमां काष्ठां प्राप्ता वितनोति श्रमणधर्माभिलाषातिशयम् । रत्नोपमस्य मानवभवस्य महाफलमवाप्तुमेतज्जीवनोचितपरिणाम प्राप्तुं विषयसौख्यतृष्णैकलक्षिणी प्रवृत्तिं परिहर्तुमात्ममुखप्रवृत्तौ लयभावमधिगन्तुं पौनःपुन्येन जन्ममृत्युजटिलजालादात्मानं रक्षयितुं कर्मव्याधिमपनेतुं च निःशेषतया निषेवणीयं धर्मौषधम् । विज्ञातव्य एष दुरापोऽवसरः | परिचिन्तनीयमेतत्पारमर्षम्-खणं जाणाइ पंडिए - इति (आचाराङ्गे.....) एतदेव साक्षादाचष्टे -
सूत्र : 'को मम कालो किमेअस्स उचिअं?' विचिन्तयेद्धर्मजागरिकायाम्, यथा - कीदृशो महामूल्योऽवसरो मयाऽवाप्तः । किञ्चैतदवसरस्योचितम् ? मम प्राक्तन्यां स्थितावनन्ताः पुद्गलपरावर्त्ता व्यतीता अनन्तजन्ममरणकरणेन | परावर्तितानि ममानन्तशरीराणि । अधुना त्वेषोऽवसरः, येन तंत्पुनरावर्त्तपरिहारः सम्भवी । तथापि कथमेनं कालं नयाम्यहम्? किमद्याप्यज्ञाने मोहवासनायां गृहादिकार्यजाल एवाटाम्यहम्? न हि भवान्तराभ्यस्तस्यैवाभ्यासार्थमेष भव इति विभावनीयम् | ___ अतः कर्त्तव्यः प्रतिप्रभातमात्मनस्त्याज्यविचारो विधातव्यविमर्शश्च । स्मर्त्तव्यानि महापुरुषाणां भव्यवृत्तानि । भावयितव्यं जिनोदिततत्त्वं तदाराधनाप्रकारनिकुरम्बं च । अपनेयाः कुवासनाः। भस्मसात्कर्त्तव्यं कर्मकाष्ठं धर्माराधनानलेन । प्रक्षालनीयं विशुद्धभावनाजलेनाऽऽत्ममालिन्यम् । कर्त्तव्याऽऽत्मतेजोऽभिवृद्धिः । तदेतदवसरसाफल्यापादनमेवमेव ।