________________
पञ्चसूत्रोपनिषद्
११९ मित्रसेवनलोकविरुद्धत्यागमनोवाक्कायविशुद्धिपरिवारासन्तापन तद्गुणकारिता दयानिर्ममत्वादि विधिविकलं शुभाध्यवसायप्रसूतौ प्रत्यलम् । न हि तपस्व्यपि पारणके परिमिताभ्यवहरणादि विधिविकलो रसगृद्धश्चावाप्नोति तपःफलम् । नापि गृहे कलहं कृत्वा जिनालये गत्वा जिनपूजाप्रवृत्तस्योदेति शुभाध्यवसायः; प्रतिबन्धकप्रतिबद्धत्वात् तस्य । विधिविकलत्वमेव प्रतिबन्धकं प्रकृतेऽपीति परिहार्यं तत् । यावत्प्रमाणा हि व्यवहारविशुद्धिः, तावत्प्रमाणं धर्मस्थानविशुद्धत्वम् । तन्मालिन्ये धर्ममालिन्यं च। अत एव प्रागनन्तानि चारित्राणि गृहीतानि, किन्त्वाऽऽज्ञाभावनाद्यभावेन वैफल्यं गतानि, भावमाङ्गल्यरूपतानवाप्तेः । विचिन्त्यमत्र सुदर्शनश्रावकज्ञातम्, यस्याणुव्रतान्यप्याज्ञाभावनादिसचिवान्यभूवन् । ततश्च प्रापुस्तानि भावमङ्गलरूपताम् । तदनुभावेन पलायितमर्जुनमाल्यधिष्ठायके न यक्षेण । प्रतिबुद्धश्चानेन श्राद्धनार्जुनमाली । एवं नागकेतुश्राद्धस्यापि विधिसचिवं व्रतानुपालनं व्यन्तरमपि चकार निजवशम् । रक्षितं समग्रमपि नगरं तेन शिलानिपातजन्यविध्वंसात् ।
(१५) धर्मजागरिका
सूत्र : तहा जागरिज्ज धम्मजागरिआए ।
साधुधर्मपरिभावनापरस्सदा धर्मजागरिकां विदध्यात् । सा च भावनिद्रापरिहारेण सम्भविनी । एषा च मोहमयी दृष्टिरतत्त्वचिन्तनं रागद्वेषकेलिर्मिथ्यात्वविलसितं बाह्यभावताण्डवं प्रमादपरवशता च । धर्मजागरिका नाम ज्ञानमयी दृष्टिः