________________
११८
पञ्चसूत्रोपनिषद् त्रिलोकबन्धुः समुपचितपुण्यसम्भारः परमकारुणिको विशिष्टतथाभव्यत्वबलोपार्जिततीर्थकृन्नामपुण्यो विश्वविश्वसत्त्वगोचरागण्यकारुण्यपुण्यः सर्वश्रेष्ठसम्यक्त्वादिलक्षणबोधिविभूषितः सम्यक् सम्बुद्धो भगवानहन् सत्त्वविशेष इति । । ।
(१४) भावमङ्गलम् .. सूत्र : एवं समालोचिअ, तदविरुद्धेसु समायारेसु सम्म वट्टिज्जा, भावमंगलमेअं तन्निप्फत्तीए ।
एवं सम्यग् विचार्य तीर्थकृद्वचनं सत्प्रणिधानपुरस्सरं यथा सम्यक्त्वादिधर्मस्थानान्यविरुद्धानि स्युस्तथा यतितव्यम् । अविरुद्धानीति जिनवचनाबाधकानि तदनुगुणानीति यावत् । विधिसचिवं हि धर्माचरणमुपयाति भावमङ्गलताम् ।
ननु च शुभाध्यवसायो भावमङ्गलमित्युच्यते । अत्र त्वहिंसादिसत्कसविधिप्रवर्त्तनस्य तत्त्वमुक्तम्, अतः किमत्र वस्तुस्वरूपमिति चेत् ? अत्रोच्यते । साधुधर्मपरिभावनासत्कं सविधि प्रवर्त्तनमुत्तमाचारोधैर्निषेव्यते । तत्सिद्धौ च सिध्यति प्रशस्तपरिणामः । अतस्तदात्मके भावमङ्गलेऽवन्ध्यनिबन्धनतां व्रजत्युक्ताचारप्रवृत्तिः । इत्थञ्च तस्यामपि तद्व्यपदेशो न्यायानपेतः । यद्यप्यन्तरं विद्यत एव दुग्धघृतयोः । तथापि पारम्पर्येण हेतुफलभावोऽविगानेनाभिमतस्तयोर्विदुषाम् । एवम्प्रकृतेऽपि दृष्टव्यम् ।
विध्यादृतिस्त्वत्रात्यन्तमावश्यकेति ध्येयम्. । न हि व्रतानुपालनमात्रं पूर्वोक्ताऽऽगमग्रहणाधर्ममित्रत्यागकल्याण