________________
पञ्चसूत्रोपनिषद्
११७ श्रेष्ठगुरुशिष्यत्वप्रतीतिः, गृहीतव्रतप्रतिजागरभावश्च रक्षति जीवं पतनात्, विधत्ते चात्मसमुन्नतिम् । विचिन्त्यमत्र धर्मरत्नप्रकरणोदितमङ्गर्षिवृत्तान्तम् । येनासदभ्याख्यानं प्राप्तेनोक्तोपयोगेनावाप्तं कैवल्यम् ।
यस्मिनात्मनि विद्यते व्रतपालनदाढयम् । यश्चोत्तमभावनारमणप्रवणोऽप्रमत्ततया विधत्ते व्रतानुपालने प्रयत्नम् । रक्षति शास्त्रोक्तद्रव्यक्षेत्रकालभावमुद्राः । स एवैवं वक्तुमर्हति, यथा - न मे तद्विराधना - इति । एवं ब्रुवाणोऽपि सम्प्रधारयति, यथा रागद्वेषप्राबल्येन सम्भवति धर्मभावनाशैथिल्यं प्रमादनिपातो धर्मप्रासादविशकलीभावश्च । अत एवासदालम्बनाद्रीभूय परिहृत्य विराधनामनुपालनीयानि व्रतानि - इति ।
न हि जगति सम्यक्त्वादितो धर्मस्थानादधिकं किमप्यस्ति सारम् । किञ्चैतदेवात्मीयम्, आनुगामिकत्वात्, सद्विपाकत्वात्, कल्याणरूपत्वाच्च । धनसम्पद्विषयस्वजनमित्रपरिवारविभवादि त्वसारम्, निरर्थकं च । तेष्वपि यदन्यायेनावाप्तम्, तत्तु परिणामदारुणम्, उक्तञ्च - पापेनैवार्थरागान्धः फलमाप्नोति यत् क्वचित् । बडिशामिषवत्तत्त-मविनाश्य न जीर्यति - इति । क्षणसुखानि वितीर्यानीत्यवाप्ता सम्पत् विनाशयत्यात्मानम् । अपनयन्ति तत्पावित्र्यम् । संहरति तत्सौन्दर्यम् । तिरस्कुर्वति तत्तेजः । विशसति तत्सामर्थ्यम् । आपादयत्यात्ममालिन्यम् |
ज्ञातान्यत्र त्रिपृष्ठ-ब्रह्मदत्त-मन्मनादयः । .
क एवमवगमयति ? क आत्मानमतिसुन्दरत्व-महासुखित्वादिगुणोपेतं कर्तमुपदिशति मार्गमित्याह - एवमाह