________________
११६
पञ्चसूत्रोपनिषद् ऽप्यत्रोचितोऽस्त्विति वाच्यम्, सर्वे जीवा पृथक् पृथगित्यादिप्रागुक्तनीत्या ममकारस्य मिथ्याभावनारूपत्वात् । अत एवैष बन्धहेतुः । तस्मात् साधुधर्मपरिभावनापरेण प्रथमत एव यतितव्यं ममकारपरिहारे, अन्यथा पश्चात्तस्य श्रामण्यबाधकत्वयोगात | विचिन्त्यमत्राऽऽर्द्रकुमारज्ञातम् ।
(१३) स्वात्मनिरीक्षणम् सत्र : तहा तेस तेस समाचारेस सइसमण्णगए सिआ, 'अमुगेऽहं अमुगकुले, अमुगसिस्से अमुगधम्मट्ठाणट्ठिए । न मे तविराहणा, न मे तदारंभो, वुढ्ढी ममेअस्स, एअमित्थ सारं, एअमायभुअं, एअं हिअं, असारमण्णं सव्, विसेसओ अविहिगहणेणं । एवमाह, तिलोगबंधू परमकारूणिगे सम्म संबुद्धे भगवं अरिहंते' त्ति । __ न हि गृहियोग्येष्वाचारेषु वर्त्तमानोऽप्ययं लक्ष्यं विना गतानुगतिकप्रवृत्तिर्भवति । किन्तु सावधानीभूय विचारयति, यथा - कोऽहम् ? किं मे कुलम् ? कस्याहं शिष्यः ? कानि मम व्रतानि - इति । अत्रोत्तराणि - अहं देवदत्तादिनामा गृहस्थ आर्यमानवः । उत्पन्नोऽस्म्यहममुक उत्तमकुले । अमुकस्याचार्यस्य शिष्योऽहम् । अमुके सदृष्टिदेशविरत्यादिके धर्मस्थाने स्थितोऽस्म्यहम् । किं मया गृहीतव्रतविराधना विहिता? न वा ? किञ्चाऽऽरभेऽहं तद्विराधनाम् ? न वा ? किमस्ति मदीयं धर्मस्थानं वृद्धिं गच्छत् ?
स्वस्यार्यमानवभवभावोपयोगः, उत्तमकुलोद्भवत्वसंवेदनम्,