________________
११५
पञ्चसूत्रोपनिषद् ममत्वमवाप कैवल्यं मुक्तिं च ।।
ममता हि समताविद्वेषिणी, अत एवैषा सुखपरिपन्थिनी । भावनीयं यथा - यत्परिवारकृते मदीयो ममत्वातिशयप्रसरः, यत्स्नेहविवशता मम, यद्विरहे च ममाकुलत्वम्, स परिवारः समुद्रकल्लोलवशान्मिलितं मत्स्यसङ्घातमनुकुरुते । त्वं मदीयोऽहं त्वदीय इत्युचाना न जानीमो वयम्, यथाऽपरेण केनचित् प्रबलेन कल्लोलेन सर्वेऽपि प्राग्वत् पृथक् पृथग् भविष्यामः | पश्यत्सु एव तेषु स्वजनेषु गमिष्यति मदात्माऽपारसंसारपारावारापरकोणं विवशतया । एवञ्च सर्वमपि ममत्वं व्यर्थमेव भविष्यति । अतो दुर्लभेऽस्मिन् भवे प्रेक्षावताऽपास्य ममकारं सर्वत्र समदर्शिना भाव्यम् - इति । __'किञ्च नैष जीवः, योऽनादौ संसारेऽस्मत्सम्बन्धीभूय न बभूवाऽसम्बन्धी । अतः परमार्थतः स्वजन एव न । तथापि गृहवासवर्तितया न विस्मर्त्तव्यं परिवारं प्रत्युचितं कर्त्तव्यम् । आधेया परिवारेऽपि निर्ममभावभावितता । प्रयोक्तव्या एतदर्थं युक्तयः । तत्प्रतिबोधासम्भवे तु भावनीया कर्मगतिविचित्रता, विमृश्या मोहान्धदशा, विचार्यं वराकानां बोधदौर्लभ्यम् । ततश्च तेष्वनुकम्पापरस्स्यात् । न तु द्वेषं सन्तापं वा कुर्यादिति । ___ ननु च परिवारपालने धर्मः कथं सम्भवतीति चेत् ? उक्तरीत्या तदनुपालने क्रियमाण आत्मोपकारयोगादिति गृहाण | न ह्येवं सन्तापप्रसूतिः, अपि तु गुणोदयः । एवं हि भवनिर्गुणस्वभावभावितता । इत्थं हि धर्माभिलाषोद्भवः, आतरौद्रध्यानपरिहारश्च । न चैवमुपकारनिमित्ततया ममकारो