________________
-
११४
पञ्चसूत्रोपनिषद् शोकसन्तापातिशयम् । विचिन्त्यमत्र स्वयम्प्रभानुरक्तस्य ललिताङ्गदेवस्यानुशोचनम् ।
ममत्वभावो हि रकं कुरुते जनम्, अतो परिवारविषयमपि विमुच्य ममकारमनुकम्पा-साधर्मिकवात्सल्यसचिवं कर्त्तव्यं तदनुपालनम् । यद्यपि परिवारो मोहान्धः षट्कायोपमर्दनपरश्च, अतस्तत्पोषणं पापम्, तथाप्युक्तरीत्या तदनुपालने क्रियमाणे सम्भवति धर्मः, यथा दीनदुःखिजनोपकारे क्रियमाणे । न हि जीवविशेषप्रतिबद्धो धर्मः । अतोऽमुकानुपालने धर्मः, अमुकानुपालने तु नेति विभागो न विद्यते । नवरं ममकारविगमोऽत्रावश्यकः । यतः -
सूत्र : सव्वे जीवा पुढो पुढो । ममत्तं बंधकारणं ।
ननु कथमात्मीयेऽपि परिवारे ममकारो न स्यादित्यत्राऽऽहजगतः सर्वेऽपि जीवाः पृथक् पृथक्, नानाविधभव्यत्वक्रमोपेतत्वात् । एवञ्चाविशेषेणान्यजीवाः परिवारगताश्च जीवाः स्वात्मनो भिन्नाः | पृथक्प्रदेशेभ्य आयाता यान्ति पृथक्प्रदेशेषु, उक्तञ्च-दिग्देशेभ्यः खगा एत्य, संवसन्ति नगे नगे । स्वस्वकार्यवशाधान्ति, देशे दिक्षु प्रगे प्रगे - इति (इष्टोपदेशे.....) अतोऽयुक्तमेषु ममत्वविभावनम् । दयया तदनुपालने धर्मः, किन्तु ममकारस्तु बन्धैकहेतुः, लोभरूपत्वात् । रागप्रकारश्चैषः । अनेन हि बध्यत आत्मा कर्मबन्धेन कुसंस्कारपाशेन संसारगतिततिनिगडेन च । अतस्त्याज्यं पर्यन्तदारुणं ममत्वम् । विलोकनीयमत्र सुरेन्द्रदत्तनृपवृत्तम्, यो ममकारेण परिवारगोचरेण भ्रान्तो महाभीमां भवाटवीम् । मरुदेवी तु सर्वजीवपृथग्भाव विभावयन्ती परिहृत्य